आत्मनिर्भर भारतस्य संकल्प रक्षा क्षेत्रे निरंतरम् अर्जयन्ति नूतनाःउपलब्धीः : मुख्यमंत्री डॉ. यादवः
- रक्षा क्षेत्रे नवनवाः में नई-नई उपलब्धीः प्राप्तुं मुख्यमंत्री डॉ. यादवःप्राकटत् हर्षम् भोपालम्, 26 अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे आत्मनिर्भरभारतस्य सङ्कल्पः रक्ष
सीएम मोहन यादव (फाइल फोटो)


- रक्षा क्षेत्रे नवनवाः में नई-नई उपलब्धीः प्राप्तुं मुख्यमंत्री डॉ. यादवःप्राकटत् हर्षम्

भोपालम्, 26 अगस्तमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे आत्मनिर्भरभारतस्य सङ्कल्पः रक्षाक्षेत्रे निरन्तरं नूतनाः उपलब्धीः प्राप्नोति।

मुख्यमन्त्री डॉ. यादवः हर्षं प्रकटयन् बुधवासरे उक्तवान् यत् भारतीयस्य रक्षानुसन्धानविकाससंस्थानेन डीआरडीओ इत्यनेन विकसितस्य स्वदेशीयस्य सैन्ययुद्धपाराशूटप्रणाल्याः एमसीपीएस इत्यस्य लद्दाखस्य न्योमास्थले माइनस् पञ्चदशडिग्रीसेल्सियस् तापमाने २२,००० पादमितोन्नत्याः सफलं परीक्षणं कृतम्। पाराकम्प्यूटरतः आरभ्य प्राणवायुप्रणालीपर्यन्तं पूर्णतया स्वदेशीयप्रौद्योगिक्या सुसज्जितस्य एमसीपीएस इत्यस्य एतत् सफलं परीक्षणम् अत्युच्चोन्नतौ भारतीयसेनायाः क्षमतां स्वावलम्बिरक्षाप्रौद्योगिकीञ्च अधिकं सुदृढं करिष्यति। मुख्यमन्त्रिणा अस्याः उपलब्धेः कृते केन्द्रसर्वकाराय डीआरडीओ-संस्थायै च अभिनन्दनं प्रदत्तम्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani