Enter your Email Address to subscribe to our newsletters


भोपालम्, २६ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य भिण्डमण्डलस्य औद्योगिक-क्षेत्रे मालनपुरे अद्य गोदरेज कञ्ज्यूमर् प्रोडक्ट्स् लिमिटेड् इत्यस्य विस्तारितस्य चतुर्थस्य विनिर्माण-एककस्य शुभारम्भः भविष्यति। एककस्य विस्तारार्थं ४५० कोटिरूप्यकेभ्यः अधिकं निवेशः कृतः अस्ति। अनेन मालनपुरे उत्पादनक्षमता वर्धिष्यते तथा च २२५०-तः अधिकाः नवीनाः रोजगारावसराः सृज्यन्ते।
जनसम्पर्काधिकारिणी बबिता मिश्रा अवदत् यत् मुख्यमन्त्री डॉ. मोहन यादवः अद्य भिण्डमण्डलस्य प्रवासे भविष्यति। सः अपराह्णे त्रिवादने मालनपुरक्षेत्रे गोदरेज कञ्ज्यूमर् प्रोडक्ट्स लिमिटेड् इत्यस्य विस्तारितस्य चतुर्थस्य विनिर्माण-एककस्य शुभारम्भं करिष्यति। कार्यक्रमे मुख्यमन्त्री लोकनिर्माणविभागस्य नियुक्तिपत्राणि अपि वितरिष्यति। अस्मिन् अवसरे पञ्चायत्-ग्रामीणविकासमन्त्री प्रह्लादसिंहपटेलः, नवीन-नवीकरणीय-ऊर्जामन्त्री राकेशशुक्लः, अन्ये जन-प्रतिनिधयः तथा गोदरेजसमूहस्य वरिष्ठा-धिकारिणश्च उपस्थिताः भविष्यन्ति।
जनसम्पर्काधिकारिण्याः अनुसारं गोदरेज-संस्थया विस्तारस्य अन्तर्गतं प्रतिहोरा १० मेट्रिकटनक्षमतेयुक्तं निरन्तरं सैपोनि-फिकेशन-संयन्त्रं तथा प्रतिनिमेषं २१७-बण्डलक्षमतेयुक्ता स्वचालिता पैकेजिङ्ग-व्यवस्था स्थाप्यते। तेन प्रतिवर्षं ४२ कोटि हेयरकलर-सैशे, १४ कोटि मशक-निरोधक-उत्पादानि तथा १० कोटि एयरफ्रेशनर्-सैशे इत्येतेषां उत्पादनक्षमता विकसिताऽभविष्यति। हेयरक्रीमस्य उत्पादनक्षमता प्रतिवर्षं ७३०० मेट्रिकटनं भविष्यति। अनेन भिण्डस्य समीपवर्ति-क्षेत्राणां च युवभ्यः रोजगारस्य अवसराः प्राप्स्यन्ति तथा स्थानीयस्तरे औद्योगिक-क्रियाकलापानां प्रोत्साहनं भविष्यति। विस्तारानन्तरं राज्याय प्रतिवर्षं प्रायः १८५ कोटिरूप्यकाणां अतिरिक्तं केन्द्रीयवस्तु-सेवा-करस्य राज्यवस्तु-सेवा-करस्य च राजस्वं प्राप्तुं सम्भावना अस्ति।
सा अवदत् यत् गोदरेज-संस्थया उत्पादनविस्तारेण सह पर्यावरण-संरक्षणेऽपि विशेषं ध्यानं दीयते। डॉव् जोन्स् सस्टेनेबिलिटी इण्डेक्स इत्यनुसारं गोदरेज कञ्ज्यूमर् प्रोडक्ट्स् विश्वस्य द्वितीयतमासु सर्वाधिकस्थायिषु एफएमसीजी-संस्थासु अन्तर्भवति। मालनपुर-संयन्त्रे शून्य-तरल-अपशिष्ट-उत्सर्जन-व्यवस्थया सह २०४ किलोवाट्-क्षमतायुक्तं रूफटॉप-सौरऊर्जासंयन्त्रं स्थापितं भविष्यति।
गोदरेज कञ्ज्यूमर प्रोडक्ट्स् लिमिटेड् इति संस्था १९९१ तमवर्षात् मालनपुरे सञ्चालिता अस्ति। औद्योगिकक्षेत्रे स्थितं संस्थायाः संयन्त्रं ६५ एकर्-क्षेत्रे विस्तीर्णम् अस्ति। अत्र अद्यावधि ८५० कोटिरूप्यकाणां सञ्चितनिवेशः कृतः अस्ति। त्रिंशदधिक-वर्षेषु एतत् संयन्त्रं गोदरेज-संस्थायाः विनिर्माणतन्त्रस्य महत्त्वपूर्ण-केन्द्ररूपेण विकसितम् अस्ति। अत्र साबुनम्, हेयरकलर् तथा गृहप्रयोगिकी-नाशकानि इत्यादीनां विविधोत्पादानां निर्माणं भवति।
नूतनस्य चतुर्थस्य विनिर्माण-एककस्य विस्तारेण मालनपुर-संयन्त्रस्य उत्पादन-क्षमतायां महत्त्वपूर्णा वृद्धिः भविष्यति। सम्प्रति अत्र प्रतिवर्षं १ लक्षं ५० सहस्रं मेट्रिकटनं फेनक-नूडल्स् तथा ७० सहस्रं मेट्रिकटनं सज्ज-शौचफेनकस्य उत्पादन-क्षमता अस्ति। विस्तारानन्तरं फेनक-नूडल्स्-उत्पादनक्षमता २ लक्षं मेट्रिकटनं तथा सज्जफेनकस्य उत्पादनक्षमता १ लक्षं २० सहस्रं मेट्रिकटनं प्रतिवर्षं भविष्यति। एवं उत्पादनक्षमता प्रतिवर्षं ३ लक्षं २० सहस्रं मेट्रिकटनं भविष्यति। अनेन मालनपुर-संयन्त्रं एशियामहाद्वीपे सर्वबृहत्तमं एकीकृतं फेनक-विनिर्माण-एककं भवितुं दिशि अग्रे गमिष्यति।
Hindusthan Samachar / Divya Ranjan