Enter your Email Address to subscribe to our newsletters

काठमाण्डू, २६ अगस्तमासः (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः रसुवाजनपदस्य भोटेकोशी-नद्यां बुधवासरे प्रातः उत्पन्नया भीषणजलौघे अभूत-पूर्वजनधनहानिं प्रति गहनं दुःखं व्यक्तवान्। प्रधानमन्त्री अवदत् यत् जलौघेन अद्यावधि पञ्चाशदधिकानां जनानां मृत्योः दुःखदं समाचारं प्राप्तम् अस्ति। सः मृतकेभ्यः श्रद्धाञ्जलिं समर्पयन् शोकसन्तप्तेभ्यः परिवारेभ्यः संवेदनां प्रकटितवान्।
प्रधानमन्त्री शाहः अवदत् यत् जलौघस्य समाचारं प्राप्तमात्रेण सर्वकारेण विलम्बं विना स्वकीयाः सर्वाः उपलब्धाः संसाधनव्यवस्थाः व्यापकं उद्धार-अभियानं प्रति नियोजिताः। राष्ट्रियविपदासमस्या-न्यूनीकरण-प्रबन्धनप्राधिकरणस्य आप-त्कालिकसभायाः अनन्तरं राष्ट्रियपरिषदः मन्त्रिपरिषदश्च सभा अभवत्, यस्यां उद्धारं, अन्वेषणं, राहतकार्यं च त्वरयितुं महत्त्वपूर्णाः निर्णयाः स्वीकृताः।
सेना, सशस्त्रप्रहरीबलं नेपालप्रहरी च अभियाने संलग्नाः
प्रधानमन्त्रिणः अनुसारं प्रभावितक्षेत्रेषु जनानां प्राणरक्षणाय लुप्तजनानाम् अन्वेषणाय च नेपालीसेनायाः, सशस्त्र-प्रहरीबलस्य, नेपालप्रहरीणां च दलानि तत्कालं नियुक्तानि। नेपालीसेनायाः हेलिकॉप्टर-सहाय्येन अद्यावधि २५० अधिकाः नागरिकाः सुरक्षितरूपेण उद्धारिताः। तेषु आहतान् जनान् तत्कालं काठमाण्डूनगरम् आनीय: उपचारः प्रारब्धः। शाहः अवदत् यत् सम्प्रति सर्वकारस्य प्रथमं प्राधान्यम् आहतानां प्राणरक्षणं, लुप्तजनानाम् अन्वेषणं, प्रभावितनागरिकाणां सुरक्षां च वर्तते।
वीरचिकित्सालये ट्रॉमा-केन्द्रे च १०० शय्याः आरक्षिताः
घातितानां सुगमस्य निःशुल्कस्य च उपचारस्य कृते काठमाण्डूनगरस्य वीरचिकित्सालये राष्ट्रीय-ट्रॉमा-केन्द्रे च १०० शय्याः आरक्षिताः कृताः। काठमाण्डू-उपत्यकायाः अन्ये प्रमुखचिकित्सालयाः अपि कदापि आहतानां उपचाराय सज्जाः स्थापिताः। सर्वकारेण प्रभावितक्षेत्रेषु चिकित्सकदलानि प्रेषयित्वा घातितानाम् उद्धारस्य प्राथमिकचिकित्सायाश्च व्यवस्था कृता। राष्ट्रिय-ट्रॉमा-केन्द्रात् विभिन्न-सुरक्षासंस्थाभ्यश्च चिकित्सकैः सह स्वास्थ्यकर्मचारिणां दलानि अपि प्रभावितक्षेत्रेषु प्रेषितानि। तदतिरिक्तं नेपालस्काउट् तथा विश्वस्वास्थ्य-सङ्घटनम् इत्यादिनां विभिन्नसंस्थानां पक्षतः चिकित्सकाः, उद्धारकर्मिणः, स्वास्थ्यसामग्री च प्रेषिताः।
भोजनस्य जलस्य अस्थायीवासस्य च व्यवस्था
प्रधानमन्त्री अवदत् यत् आपत्कालिक-स्वास्थ्यसेवायां, औषधिषु, रक्ते च न्यूनता न भवेत्, एतदर्थं रक्तसञ्चारकेन्द्रेण, बागमती-गण्डकी-प्रदेशयोः स्वास्थ्य मन्त्रालयैः, नेपाल-रेडक्रॉससोसाइटी, लाइन्स्-क्लब-संस्थया, नेपालस्काउट इत्यादिभिः विभिन्न-संस्थाभिः सह निरन्तरं समन्वयः क्रियते।
जलौघेन सर्वाधिकं प्रभावितक्षेत्रेषु नुवाकोटस्य विदुरः, रसुवायाः उत्तरगया गोसाइँकुण्डश्च, धादिङस्य गजुरी, गल्छी, बेनीघाट, त्रिपुरासुन्दरी, सिद्धलेखश्च तथा गोरखायाः शहीदलखन-गण्डकीग्राम-पालिके च अन्तर्भवन्ति। सर्वकारेण एतेषां क्षेत्राणां पीडितपरिवाराणां समीपं तत्कालं खाद्यसामग्रीः, स्वच्छपेयजलम्, औषधानि, अस्थायी-वासव्यवस्था च प्रापयितुं आश्वासनं दत्तम्।
रात्रीपर्यन्तं उद्धाराभियानं प्रचलिष्यति
प्रधानमन्त्री शाहः अवदत् यत् जलौघे लुप्तानां जनानाम् अन्वेषणं अधिकं तीव्रं करिष्यते तथा आहतानां जलौघेन उत्पन्नस्य च नुकसानस्य विस्तृतविवरणं सङ्कलितं क्रियते। सः अवदत् यत् उद्धाराभियानं बुधवासरस्य रात्रौ अपि निरन्तरं प्रचलिष्यति। जलौघेन क्षतिग्रस्तानां मार्गाणां, सेतूनां, विद्युत्-पेयजल-परियोजनानां च प्राथमिकतया पुनर्निर्माणं करिष्यते तथा विस्थापित-परिवाराणां सुरक्षितस्थलेषु पुनर्वसनं करिष्यते।
प्रधानमन्त्री जलौघप्रभावितेभ्यः जनेभ्यः आश्वासनं दत्त्वा अवदत् यत् अस्मिन् कठिनसमये ते एकाकिनः न सन्ति, राज्यं स्वकीयैः सर्वैः साधनैः संसाधनैश्च सह तेषां पार्श्वे दृढतया स्थितम् अस्ति। प्रभावित-नागरिकाणाम् उद्धारस्य, उपचारस्य, भोजनस्य, आवासस्य च सम्पूर्णं दायित्वं सर्वकारः निर्वक्ष्यति। शाहः सामाजिक-संस्थाभ्यः, उद्योगपतिभ्यः, व्यवसायिभ्यः, युवस्वयंसेवकेभ्यः, सामान्यनागरिकेभ्यश्च सर्वकारस्य उद्धार-अभियाने स्वशक्त्य-नुसारं सहयोगं कर्तुम् अपि आह्वानं कृतवान्।
/ अंशु गुप्ता