Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 26 अगस्तमासः (हि.स.)।ओडिशाराज्यस्य मुख्यमन्त्री मोहनचरणमाझी पावनस्य ओणम्पर्वणः अवसरे राज्यवासिभ्यः देशवासिभ्यश्च हार्दिकशुभकामनाः प्रदत्तवान्।
मुख्यमन्त्री स्वस्य सामाजिकमाध्यमे प्रकाशितेन सन्देशेन सर्वेषां परिवाराणां सुख-समृद्धि-सौहार्दस्य च कामनां कृतवान्। सः अवदत् यत् ओणम्पर्व एकतायाः भ्रातृत्वभावनायाश्च सुदृढीकरणं करोति।
माझी आशां प्रकटितवान् यत् अयं पर्वः जनान् अधिकसमावेशिनः समृद्धस्य च समाजस्य निर्माणस्य दिशि अग्रे गन्तुं प्रेरयिष्यति।
------------
Hindusthan Samachar / Dheeraj Maithani