Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 अगस्तमासः(हि.स.)।प्रधानमन्त्री नरेन्द्रमोदीः श्वः प्रातः ११ वादने दूरदृश्यसम्पर्कमाध्यमेन ‘खेलो इण्डिया संवादे’ युवानः सम्बोधयिष्यति। अस्मिन् कार्यक्रमे देशस्य सर्वेभ्यः भागेभ्यः युवानां सहभागिता भविष्यति। अत्र क्रीडा, युवानेतृत्वम्, नागरिकदायित्वम्, स्वयंसेवित्वम्, शारीरिकस्वास्थ्यं तथा राष्ट्रनिर्माणम् इत्येतानि विषयानि एकस्मिन् साझा-मञ्चे समागमिष्यन्ति। प्रधानमन्त्रीकार्यालयेन उक्तं यत् अयं कार्यक्रमः ‘मेरा युवा भारत’ (एम्.वाय्. भारत) संस्थया राष्ट्रियक्रीडादिवसस्य २०२६ तमस्य वर्षस्य अवसरस्य निमित्तं आयोज्यते। देशस्य राज्येषु केन्द्रशासितप्रदेशेषु च प्रत्येकस्य जनपदस्य द्वाभ्यां महाविद्यालयाभ्यां युवानः अस्मिन् कार्यक्रमे भागं गृह्णीयुः। प्रधानमन्त्रीनरेन्द्रमोदिनः अयं संवादः स्वस्थं, अनुशासितं तथा क्रीडाभावनायुक्तं राष्ट्रनिर्माणं प्रति तस्य दृष्टिकोणस्य अनुरूपः अस्ति, यस्मिन् युवानाम् आकांक्षाः राष्ट्रियविकासस्य कार्यसूच्याः केन्द्रे स्थापिताः सन्ति।
खेलो इण्डिया-संवादस्य अनन्तरं स्थानीयस्तरे युवभिः, स्वयंसेवकैः, क्रीडकैः तथा जनप्रतिनिधिभिः सह संवादः भविष्यति। अस्मिन् युवभ्यः प्रमुखभारतीयक्रीडकैः पदकविजेतृभिश्च सह प्रत्यक्षं वार्तालापस्य अवसरः प्राप्स्यति। कार्यक्रमस्य मुख्याकर्षणं युवासंवादः भविष्यति, यस्मिन् प्रतिभागिनः स्वविचारान् आकांक्षाश्च प्रस्तुतं करिष्यन्ति।
अयं संवादः पञ्च प्रमुखविषयेषु केन्द्रितः भविष्यति— क्रीडापरिसरस्य उत्तमसुविधानां प्रशिक्षणस्य च माध्यमेन सुदृढीकरणम्; २०३६ तमस्य ओलम्पिक्-क्रीडायाः कृते प्रतिभानां चयनं दीर्घकालिकं क्रीडकविकासश्च; शासनमञ्चेषु सहभागितया स्वयंसेवित्वेन च युवानेतृत्वस्य निर्माणम्; नागरिकदायित्वेन भविष्यत्कौशलैश्च विकसितभारतस्य कृते यूनां सशक्तीकरणम्; तथा क्रीडया सहपाठीभिः निर्मितैः सञ्जालैश्च नशामुक्तयुवाआन्दोलनस्य सुदृढीकरणम्।
---------------
Hindusthan Samachar / Dheeraj Maithani