प्रधानमंत्री मोदी मिलाद-उन-नबी अथ ओणम इत्येतयोः देशवासिभ्योऽददात् शुभकामनाः
नवदिल्ली, 26 अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य ‘एक्स’ सन्देशे मिलाद-उन-नबी-पर्वणः तथा ओणम्-पर्वणः अवसरे देशवासिभ्यः शुभकामनाः अर्पितवान्। सः उभयोः पर्वणोः माध्यमेन समाजे एकतायाः, आनन्दस्य, दयालुतायाः समृद्धेः च भावनां अधिकं दृढीक
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, 26 अगस्तमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी अद्य ‘एक्स’ सन्देशे मिलाद-उन-नबी-पर्वणः तथा ओणम्-पर्वणः अवसरे देशवासिभ्यः शुभकामनाः अर्पितवान्। सः उभयोः पर्वणोः माध्यमेन समाजे एकतायाः, आनन्दस्य, दयालुतायाः समृद्धेः च भावनां अधिकं दृढीकर्तुं कामनाम् अकरोत्।

मिलाद-उन-नबी-पर्वणः शुभकामनाः प्रददन् सः अवदत् यत् एषः अवसरः सर्वेषां मध्ये एकतायाः आनन्दस्य च भावनां वर्धयेत्। सः कामनाम् अकरोत् यत् दयालुतायाः समाजस्य प्रति योगदानस्य च भावना सर्वदा सर्वेषां मार्गदर्शिका भवतु। सः लिखितवान्— “ईद् मुबारक्! मिलाद-उन-नबी-पर्वणः शुभकामनाः।”

प्रधानमन्त्री मोदी देशवासिभ्यः ओणम्-पर्वणः शुभकामनाः प्रददन् अवदत् यत् एतत् एकं जीवन्तं पर्व अस्ति, यत् न केवलं भारते, अपितु सम्पूर्णे विश्वे अपि महता उत्साहेन आचर्यते। सः प्रार्थितवान् यत् ओणम्-पर्व समाजे आनन्दस्य, एकतायाः समृद्धेः च भावनां अधिकं प्रवर्धताम्।

---------------

Hindusthan Samachar / Dheeraj Maithani