Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 26 अगस्तमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे नेपालस्य प्रधानमन्त्री बालेन्द्रशाहेन सह दूरभाषमाध्यमेन वार्तां कृत्वा नेपालदेशे बाढ्याः कारणेन जातायां जनहानौ गहनं दुःखं संवेदितवान्। अस्मिन् कठिनसमये नेपालस्य जनानां प्रति भारतस्य ऐक्यभावं प्रकटयन् सर्वसम्भवां मानवीयां राहत्सहायतां च प्रदातुं विश्वासं प्रदत्तवान्।
प्रधानमन्त्री मोदी सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र प्रकाशिते सन्देशे उक्तवान् यत् तेन प्रधानमन्त्री बालेन्द्रशाहेन सह वार्ता कृता तथा च नेपालदेशे बाढ्याः कारणेन जातायां जनहानौ संवेदना प्रकटिता। तेन उक्तं यत् अस्मिन् कठिनसमये भारतस्य जनाः नेपालदेशस्य स्वकीयैः भ्रातृभिः भगिनीभिश्च सह दृढतया तिष्ठन्ति।
प्रधानमन्त्रिणा उक्तं यत् भारतं नेपालाय सर्वसम्भवां मानवीयसहायतां प्रदातुं सज्जम् अस्ति। तेन सूचितं यत् उद्धारकार्येषु राहत्कार्येषु च भारतीयदलानि नेपालस्य सम्बद्धाधिकारिभिः सह मिलित्वा कार्यं कुर्वन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani