Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी परस्परम् अधिगमस्य, परस्परं वचनश्रवणस्य, निःस्वार्थभावेन व्यवहारस्य च महत्त्वं रेखाङ्कितवान्। प्रधानमन्त्री मोदी अद्य ‘एक्स्’ इत्यत्र एकं सुभाषितं लिखित्वा अवदत् यत् ये जनाः परस्परात: शिक्षितुं तेषां वचनं च सावधानतया श्रोतुं तत्पराः भवन्ति, ते विद्वद्भिः प्रशस्यन्ते तथा च जीवने सुखसमृद्धिं प्राप्नुवन्ति।
प्रधानमन्त्रिणा लिखितं सुभाषितम् अस्ति यत् “ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम्। विनिवृत्ताभिसन्धानाः सुखमेधन्ति सर्वशः॥”
अस्य सुभाषितस्य अर्थः अस्ति यत् ये जनाः परस्परम् एकस्मात् अपरं शिक्षितुम्, परस्परस्य वचनं च श्रोतुम् इच्छन्ति, ते ज्ञानिभिः प्रशंस्यन्ते। एते जनाः स्वार्थपूर्णेभ्यः प्रयोजनेभ्यः कस्यापि प्रकारस्य गुप्तहितेभ्यः च दूरं तिष्ठन्ति। ते निःस्वार्थभावेन परस्परं सहयोगं संवादं च कुर्वन्तः जीवनस्य प्रत्येकस्मिन् क्षेत्रे सुखम् उन्नतिं च प्राप्नुवन्ति।
प्रधानमन्त्रिणा अस्य सुभाषितस्य माध्यमेन भारतीयज्ञानपरम्परायां निहितानां संवादस्य, विनम्रतायाः, पारस्परिक-अधिगमस्य, निःस्वार्थाचरणस्य च मूल्यानां महत्त्वं प्रतिपादितम्।
Hindusthan Samachar / Divya Ranjan