Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २६ अगस्तमासः (हि.स.)। ईद-मिलाद-उन-नबी-पर्वणः अवसरे राष्ट्रपतिः द्रौपदी मुर्मू, उपराष्ट्रपतिः सी. पी. राधाकृष्णन् इत्येताभ्यां सह केन्द्रीय-मन्त्रिणः देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः। सर्वे पैगम्बर-मुहम्मदस्य शिक्षाः स्मरन्तः शान्तेः, करुणायाः, परस्पर-सम्मानस्य, भ्रातृत्वस्य सद्भावस्य च सुदृढीकरणस्य सन्देशं प्रदत्तवन्तः।
राष्ट्रपतिः द्रौपदी मुर्मू देशवासिभ्यः, विशेषतः मुस्लिमसमुदायस्य जनेभ्यः, ईद-मिलाद-उन-नबी-पर्वणः शुभकामनाः प्रदत्तवती। सा अवदत् यत् अयं अवसरः पैगम्बर-मुहम्मदस्य शिक्षाः स्मर्तुं भवति, याः जनान् सदाचरणं कर्तव्यभावनां च स्वीकर्तुं प्रेरयन्ति। सा सर्वान् तस्य जीवनस्य महान् सिद्धान्तैः मार्गदर्शनं प्राप्य समावेशिनः प्रगतिशीलस्य च भारतस्य निर्माणे सक्रियभूमिकां निर्वोढुं आह्वानं कृतवती।
उपराष्ट्रपतिः सी. पी. राधाकृष्णन् मिलाद-उन-नबी-पर्वणि शुभकामनाः प्रदाय अवदत् यत् अयं पवित्रः अवसरः करुणायाः, सद्भावस्य, परस्परसम्मानस्य च मूल्यानां संरक्षणाय तथा भ्रातृत्वबन्धनस्य सुदृढीकरणाय प्रेरणां ददातु। सः सर्वेषां कृते शान्तेः, हर्षस्य समृद्धेश्च कामनां कृतवान्।लोकसभाध्यक्षः ओम बिरला ईद-मिलाद-उन-नबी-पर्वणः शुभकामनाः प्रदाय देशे शान्तेः, सद्भावस्य ऐक्यभावनायाश्च अधिकं सुदृढीकरणं भवतु इति कामनां कृतवान्।
रक्षामन्त्री राजनाथसिंहः अवदत् यत् मिलाद-उन-नबी-पर्वणः अवसरः सर्वेषां कृते शान्तिं समृद्धिं च आनयतु। सः आशां व्यक्तवान् यत् समाजे परस्परसद्भावस्य करुणायाश्च भावना अधिकं सुदृढा भविष्यति।
काङ्ग्रेसस्य राष्ट्रीयाध्यक्षः मल्लिकार्जुन-खरगे अवदत् यत् पैगम्बर-मुहम्मदस्य जीवनं तस्य शिक्षाश्च मानवतायै करुणा, शान्तिः न्यायश्च इत्यादीनां शाश्वतमूल्यानां स्मरणं कारयतः। सः अवदत् यत् अयं अवसरः भ्रातृत्वबन्धनं सुदृढं करोतु तथा देशे परस्परसम्माने साम्प्रदायिकसद्भावे च आधारितस्य समाजस्य निर्माणाय प्रेरणां ददातु।
लोकसभायां विपक्षनेता राहुलगान्धी ईद-मिलाद-उन-नबी-पर्वणः शुभकामनाः प्रदाय सर्वेषां कृते शान्तेः, हर्षस्य, समृद्धेः उत्तमस्वास्थ्यस्य च कामनां कृतवान्।केन्द्रीयकृषिमन्त्री शिवराजसिंहचौहानः अपि ईद-मिलाद-उन-नबी-पर्वणि शुभकामनाः प्रदाय अवदत् यत् एतत् पर्व जनानां जीवने सुखं, शान्तिं, समृद्धिं हर्षं च आनयतु।
आमआदमीपक्षस्य राष्ट्रीयसंयोजकः दिल्लीप्रदेशस्य पूर्वमुख्यमन्त्री च अरविन्दकेजरीवालः ईद-ए-मिलाद-उन-नबी-पर्वणः शुभकामनाः प्रदाय प्रार्थितवान् यत् अयं पावनः अवसरः जनानां जीवने हर्षम् आनयतु, देशे परस्परभ्रातृत्वं सुदृढं भवतु तथा प्रत्येकं परिवारः प्रगतिं करोतु।
Hindusthan Samachar / Divya Ranjan