पंजाबस्य मोहाल्यां भूखनने अमिलत् शताब्दीभ्यः पुरातनरजतमुद्रा
चंडीगढ़म्, 26 अगस्तमासः (हि.स.)। मोहालीनगरे खरड़स्य समीपे श्रीचमकौरसाहिब-विधानसभाक्षेत्रस्य अन्तर्गते ऐतिहासिके घड़ूआं-ग्रामे एका प्राचीना धर्मशाला अस्ति। तस्याः उत्खननसमये शताब्देभ्यः प्राचीना रजतमुद्राः प्राप्ताः इति वार्ता प्रचलिता अस्ति। एतेष
ਖੁਦਾਈ ਦੌਰਾਨ ਮਿਲੇ ਚਾਂਦੇ ਦੇ ਸਿੱਕੇ ਦੀ ਫੋਟੋ।


ਇਤਿਹਾਸਕ ਪਿੰਡ ਘੜੂੰਆਂ ਦੀ ਧਰਮਸ਼ਾਲਾ ਜਿਥੇ ਖੁਦਾਈ ਦੌਰਾਨ ਮਿਲੇ ਸਿੱਕੇ।


चंडीगढ़म्, 26 अगस्तमासः (हि.स.)।

मोहालीनगरे खरड़स्य समीपे श्रीचमकौरसाहिब-विधानसभाक्षेत्रस्य अन्तर्गते ऐतिहासिके घड़ूआं-ग्रामे एका प्राचीना धर्मशाला अस्ति। तस्याः उत्खननसमये शताब्देभ्यः प्राचीना रजतमुद्राः प्राप्ताः इति वार्ता प्रचलिता अस्ति। एतेषु मुद्रासु उर्दूभाषायां लेखः अस्ति इति कथ्यते। मुद्राणां प्राप्तेः वार्ता प्रसृते सति ग्रामे चर्चायाः वातावरणं जातम्।

ग्रामवासिनां कथनानुसारं ग्रामे स्थितां प्राचीनां धर्मशालां पातयित्वा तस्याः स्थाने नवीनभवनस्य निर्माणं क्रियमाणम् अस्ति। नवीनभवनस्य आधारशिलां सज्जीकर्तुं यदा भूमेः उत्खननं कृतम्, तदा मृत्तिकायाः मध्यात् केचन प्राचीनाः रजतमुद्राः प्राप्ताः। कथ्यते यत् तेषु बहवः मुद्राः स्थानीयजनैः बालकैश्च गृहीताः, ततः अनन्तरमेव इदं प्रकरणं प्रकाशे आगतम्।

काउन्सिलरः शमशेरसिंहः अपि स्वीकृतवान् यत् घड़ूआं-ग्रामे उत्खननसमये प्राचीनमुद्राणां प्राप्तेः सूचना तेन प्राप्ता अस्ति। तथापि सः अवदत् यत् एतेषां मुद्राणां पञ्चशत-षट्शतवर्षेभ्यः प्राचीनत्वस्य चर्चा श्रूयते, किन्तु अद्यापि तस्याः आधिकारिकरूपेण पुष्टिः न जाता। शमशेरसिंहस्य कथनानुसारं मुद्राणां विषये सम्पूर्णां सूचनां प्राप्त्वैव तेषाम् आयुः ऐतिहासिकं च पृष्ठभूमिविषयकं यथार्थं विवरणं दातुं शक्यते। सम्प्रति तेन केवलं मुद्राणां प्राप्तेः चर्चायाः विषये एव सूचना प्राप्ता अस्ति।

अधुना एतेषां मुद्राणां वास्तविकसंख्या, धातुः, कालखण्डः ऐतिहासिकं च महत्त्वं विस्तृतान्वेषणानन्तरमेव स्पष्टं भविष्यति। यदि एताः मुद्राः वस्तुतः शताब्दीभ्यः प्राचीनाः सिद्धाः भवन्ति, तर्हि एषा घड़ूआं-ग्रामस्य इतिहाससम्बद्धा महत्त्वपूर्णा खोजः भवितुमर्हति।

-------------------------

Hindusthan Samachar / Dheeraj Maithani