Enter your Email Address to subscribe to our newsletters

— भोपालनगरे सप्तदिवसीय-श्रीरास-लीलासमारोहसहितं सम्पूर्णप्रदेशे भविष्यन्ति विविधानि आयोजनानि
भोपालम्, २६ अगस्तमासः (हि.स.)। रक्षाबन्धनपर्वणः, बलरामजयन्त्याः, श्रीकृष्ण-जन्माष्टम्याः च अवसरे मध्यप्रदेशे विविधाः कार्यक्रमाः भविष्यन्ति। सामान्य-प्रशासनविभागेन विद्यालयशिक्षा, उच्चशिक्षा, संस्कृतिः, कृषककल्याणं तथा कृषिविकासः, महिलाबालविकासः, लोक-स्वास्थ्यं तथा चिकित्साशिक्षा, पर्यटनम्, कारागारः, गृहम्, पशुपालनम्, जनजातीयकार्यम् इत्यादीनां विभागानां आयुक्तेभ्यः जिलाधिकारिभ्यश्च निर्देशाः निर्गताः।
रक्षाबन्धनपर्वणि आयोजनानि
जनसम्पर्काधिकारी राजेशबैनः बुधवासरे अवदत् यत् सामान्यप्रशासनविभागेन निर्गते परिपत्रानुसारं २८ अगस्तमासे २०२६ तमे वर्षे रक्षाबन्धनपर्वणि सामाजिकसम्बन्धानां प्रकृतेः पर्यन्तं विस्तारं कृत्वा जलस्य, प्रकृतेः, पर्यावरणस्य च सह गहनसम्बन्धस्य रक्षणस्य सङ्कल्पाय आह्वानाय च विभिन्नवर्गाणां जनान् संयोजयितुं ‘एका राखी, एकः सङ्कल्पः’, ‘रक्षासूत्रम्, एका राखी, एकः सम्बन्धः’, ‘वृक्षाय राखी—प्रकृत्या सह भ्रातृत्वम्’ इत्यादीनि क्रियाकलापानि जनसहभागितया आयोजयिष्यन्ते। छात्राणां कृते विद्यालयेषु प्रकृतेः संरक्षणविषये कथालेखनस्य चित्रकलाप्रतियोगितायाश्च आयोजनं भविष्यति। रक्षाबन्धनपर्वणः अवसरे मुख्यमन्त्रिणः निवासे प्रसङ्गानुरूपाः कार्यक्रमाः भविष्यन्ति।
बलरामकृषिमहोत्सवे आयोजनानि
२ सितम्बरमासे २०२६ तमे वर्षे बलरामजयन्त्याः अवसरे बलरामकृषि-महोत्सवस्य अन्तर्गतं कृषिसम्बद्धानां पारम्परिककलारूपाणां विशेषप्रस्तुतिभिः सह आधुनिककृषियन्त्राणां, बीजानां, प्राकृतिककृषेः च केन्द्रिताः प्रदर्शनी-संवादादयः कार्यक्रमाः आयोजयिष्यन्ते।
श्रीकृष्णजन्माष्टम्यां प्रतियोगिताः सांस्कृतिककार्यक्रमाश्च
४ सितम्बरमासे २०२६ तमे वर्षे श्रीकृष्णजन्माष्टमी सम्पूर्णप्रदेशे भव्य-स्तरेण आचरिष्यते। जन्माष्टमी बाललीलायाः पर्व अस्ति, अतः बालकान् विशेषरूपेण कार्यक्रमेषु संयोजयितुं विद्यालयेषु मटकीप्रतियोगिता, वंशीवादन-प्रतियोगिता, सजीवप्रदर्शिनीनिर्माणम्, श्रीकृष्णसम्बद्धेषु प्रसङ्गेषु आशुभाषण-प्रतियोगिता च आयोजयिष्यते। लघु-बालकान् भगवत: श्रीकृष्णस्य बालस्वरूपे सज्जीकृत्य विशेषप्रस्तुतिरपि विद्यालयेषु आयोजयिष्यते।
श्रीकृष्णजन्माष्टम्याः अवसरे प्रत्येकं जनपदे कृष्णमन्दिराणां, मठानां, देवालयानां च विशेषशृङ्गारः तथा सार्वजनिकस्थलेषु स्वच्छताभियानम्, मटकीसज्जाप्रतियोगिता, मटकीभञ्जन-प्रतियोगिता, भाषणप्रतियोगिता, स्थानीय-कलाकारैः वंशीवादनम्, भजनगायनम्, प्रदर्शिनीप्रदर्शनं च आयोजयिष्यते। ‘कृष्णजन्म’, ‘वृन्दावनम्’, ‘गोवर्धनपूजा’, ‘गीतापदेशः’ इत्यादीनां सजीवझाँकीनां, दीपप्रज्वलनस्य सामूहिकआरत्याः च कार्यक्रमाः भविष्यन्ति।
प्रदेशस्य प्रायः ८१ प्रमुखेषु श्रीकृष्णमन्दिरेषु धार्मिकस्थलेषु च भजन-कीर्तनादीनां भक्तिमयकार्यक्रमाणां कृते कलादलानां, भजनमण्डलीनां, सांस्कृतिकदलानां च प्रस्तुतिः कलादल-श्रीकृष्णपाथेयन्यासः, भोपालः, इत्यनेन जनपदप्रशासनस्य माध्यमेन सुनिश्चित्य कारयिष्यते।
मुख्यमन्त्रिणः निवासे ४ सितम्बरमासे सांस्कृतिककार्यक्रमाः
मुख्यमन्त्रिणः निवासे ४ सितम्बरमासे २०२६ तमे वर्षे आयोजिते कार्यक्रमे भक्तिगायनम्, लोकनृत्यम्, मटकी-भञ्जनकार्यक्रमश्च भविष्यन्ति। सहस्राधिकाः लघुबालकाः भगवत: श्रीकृष्णस्य बालस्वरूपे सज्जीकृत्य परिजनैः सह आमन्त्रयिष्यन्ते। अस्मिन् अवसरे माखन-मिश्री, लड्डूगोपालस्य, श्रीकृष्णस्य बालस्वरूपस्य तथा विविधप्रसङ्गैः प्रदत्तशिक्षायाः च विषये केन्द्रितं साहित्यं बालकेभ्यः उपहारी-करिष्यते।
२९ अगस्तमासतः ४ सितम्बरमासपर्यन्तं बालकेभ्यः विशेषपोषण-स्वास्थ्य-शिबिराणाम् आयोजनं भविष्यति। सर्वेषु आङ्गनवाडिकेन्द्रेषु प्राथमिक-विद्यालयेषु च जन्माष्टम्याः अवसरे बालकानां विशेषपोषणाय भोजनव्यवस्था कारयिष्यते।
भोपालनगरे सप्तदिवसीय-श्रीरासलीला-समारोहसहितं सम्पूर्णप्रदेशे आयोजनानि
श्रीकृष्णजन्माष्टम्याः अवसरे प्रदेशस्य शासकीयेषु अशासकीयेषु च होटलेषु एतादृशस्य वातावरणस्य निर्माणस्य प्रयासाः भविष्यन्ति, येन पर्यटकाः श्रद्धायाः अनुभवं कर्तुं शक्नुयुः। जन्माष्टम्याः अवसरे भोपालनगरे सप्तदिवसीय-श्रीरासलीलासमारोहस्य आयोजनं भविष्यति। श्रीकृष्णसम्बद्धेषु विशेषस्थलेषु—जानापाव-इन्दौर, अमझेरा-धार, गोपालमन्दिरम्-उज्जयिनी, सान्दीपनि-आश्रमः, नारायणा, जामगढ़-रायसेन, खातेगाँव-देवास, पन्ना, शहडोल, उमरिया, मण्डला, राघौगढ़-गुना, भितरवार-ग्वालियर, जावद-नीमच, मल्हारगढ़-मन्दसौर इत्यादिषु स्थलेषु जनप्रतिनिधीनां, मन्त्रिणां, सांसदानां, विधायकानां च नेतृत्वे तत्तत्स्थल-सम्बद्धानां प्रसङ्गानां मूलभावस्य विस्ताराय विशिष्टाः सांस्कृतिककार्यक्रमाः आयोजयिष्यन्ते।
जनपदकारागारे भगवन्तं श्रीकृष्णं केन्द्रिताः कार्यक्रमाः आयोजयिष्यन्ते। भगवत: श्रीकृष्णस्य विविधप्रसङ्गानाम् आख्यानानां च अनुरूपं शिक्षा, संस्कृतिः, कृषिः, गोशाला इत्यादिषु कार्यक्रमाः भविष्यन्ति।
छात्रावासेषु आश्रमशालासु च कृष्णमयाः गतिविधयः
जनजातीयक्षेत्राणां छात्रावासेषु आश्रम-शालासु च भजनप्रतियोगिता, श्रीकृष्ण-वेशभूषा, चित्रकलादयः कार्यक्रमाः आयोजयिष्यन्ते। तथैव जनजातीय-ग्रामसंस्कृतिसम्बद्धानां प्रसङ्गानाम् आख्यानानां च, यथा जनजातीयवर्गेण वंशीवादनम्, साजसज्जायां मयूरपिच्छस्य प्रयोगः इत्यादीनां प्रतिमानानां महत्त्वस्य महात्म्यस्य च प्रचाराय विविधाः गतिविधयः आयोजयिष्यन्ते।
प्रदेशस्य गोशालासु स्वच्छता, गोपूजा, गोरक्षासूत्रबन्धनं, स्वास्थ्यपरीक्षण-सम्बद्धानि च शिबिराणि आयोजयिष्यन्ते।
कांवडयात्रासु जनसुविधायाः सुरक्षायाश्च व्यवस्था
भगवान् श्रीकृष्णसम्बद्धानां विविध-प्रसङ्गानाम् आख्यानानां च वास्तविक-भावस्य लोकव्यापीकरणाय, स्थानानां महत्त्वानुरूपं च कार्यक्रमानां संयोजनं कारयिष्यते। श्रावणमासे आयोज्यमानायां कांवडयात्रायां कांवडियात्रिणाम् आवागमनमार्गेषु जनसुविधानां समुचिता व्यवस्था, सुरक्षाव्यवस्था तथा दुर्घटनानां निवारणाय आवश्यककार्यवाही च विशेषरूपेण सुनिश्चित्या भविष्यति।
Hindusthan Samachar / Divya Ranjan