Enter your Email Address to subscribe to our newsletters

कठुआ, 26 अगस्तमासः (हि.स.)।
ईद-ए-मिलाद-उन-नबी इति पावनपर्वणः शुभावसरे एसएसपी कठुआ-मोहिता शर्मा, आईपीएस, जिला-पुलिस-कठुआयाः सर्वेषाम् अधिकारिणां जवानानां च पक्षतः जनपदवासिभ्यः हार्दिकशुभकामनाः प्रदत्तवती। सा पुलिसहुतात्मनां परिवाराणां तथा सेवारतानां निवृत्तानां च पुलिसकर्मचारिणां तेषां परिवाराणां च ईद-ए-मिलाद-उन-नबी-पर्वणः शुभकामनाः प्रदत्तवती।
एसएसपी मोहिता शर्मा स्वसन्देशे अवदत् यत् अयं पावनावसरः सर्वेषां जीवने सुखं शान्तिं समृद्धिं च आनयतु। सा आशां प्रकटितवती यत् ईद-ए-मिलाद-उन-नबी इति पर्व समाजे परस्परभ्रातृत्वस्य, एकतायाः, सद्भावस्य तथा परस्परं मिलित्वा निवासस्य भावनां अधिकं सुदृढं करिष्यति। सा जनपदस्य सर्वेषां नागरिकाणां उज्ज्वलस्य सुखमयस्य च जीवनस्य कामनां कृतवती।
---------------
Hindusthan Samachar / Dheeraj Maithani