Enter your Email Address to subscribe to our newsletters



— भानुप्रतापपुरस्य छात्रैः केटीयू-विश्वविद्यालयस्य शैक्षणिकभ्रमणं कृतम्
रायपुरम्, २६ अगस्तमासः (हि.स.)। कुशाभाऊठाकरे-पत्रकारिता-जनसञ्चार-विश्वविद्यालये, रायपुरे शासकीय-महर्षि-वाल्मीकि-महाविद्यालयस्य, भानुप्रताप-पुरस्य, पत्रकारिताविभागस्य विद्यार्थिभिः शैक्षणिकभ्रमणं कृतम्।
अस्मिन् अवसरे बस्तरप्रदेशात् आगतैः विद्यार्थिभिः विश्वविद्यालयस्य उन्नतप्रयोग-शालानाम् अवलोकनं कृतम् तथा कुलपतिना प्रो. मनोजदयालेन सह संवादं कृत्वा जनसञ्चारस्य सूक्ष्मताः अवगताः।
विश्वविद्यालयस्य कुलपतिः प्रो. मनोजदयालः छात्रान् प्रेरयन् अवदत् यत् सकारात्मकया निष्पक्षया च पत्रकारितयैव सशक्तस्य नूतनसमाजस्य निर्माणं कर्तुं शक्यते। तेन विद्यार्थिभ्यः परामर्शः दत्तः यत् ते माध्यमक्षेत्रे स्वकीयां सृजनात्मकतां परिष्कुर्वन्तु तथा समाचारपत्राणां, दूरदर्शनस्य, आकाशवाण्याः, अङ्कीय-माध्यमानां च नियमितं तुलनात्मक-मध्ययनं कुर्वन्तु।
भ्रमणस्य अवसरे विद्यार्थिभिः केटीयू-विश्वविद्यालयस्य दूरदर्शन-स्टूडियो, सामुदायिक-रेडियो, सङ्गणकप्रयोगशाला, पुस्तकालयस्य तथा निर्माणाधीनस्य कृत्रिमबुद्धिमत्ता-मीडिया-अनुसन्धानप्रयोगशालायाः प्रत्यक्षम-वलोकनं कृतम्। महर्षिवाल्मीकि-महाविद्यालयस्य शिक्षकस्य श्रीदामढाली इत्यस्य मार्गदर्शनेन आगतैः छात्रैः विश्वविद्यालयस्य सामुदायिकरेडियो ‘संवाद ९८.२ एफएम’ इत्यत्र स्वकीयसन्देशाः अपि अभिलेखिताः। अस्मिन् अवसरे छात्रैः जनसञ्चारस्य, इलेक्ट्रॉनिक-माध्यमस्य, विज्ञापनस्य, जनसम्पर्कस्य च विभागानां प्राध्यापकानां शोधार्थिनां च सह साक्षात्कारं कृत्वा विश्वविद्यालयस्य सृजनात्मक-क्लबानां शोधपीठानां च कार्यप्रणाली अवगता।
भ्रमणस्य अवसरे विद्यार्थिभिः कुलपतिः प्रो. डॉ. मनोजदयालः, कुलसचिवः सुनीलशर्मा, सहायककुलसचिवः देवसिंहपाटिलः इत्यादिभ्यः विभिन्नविभागाध्यक्षेभ्यश्च मार्गदर्शनं प्राप्तम्। विद्यार्थिभिः एतत् भ्रमणम् अत्यन्तं ज्ञानवर्धकं प्रेरणादायकं च अनुभवं कथितम्।
हिन्दुस्थान समाचार / Divya Ranjan