स्वच्छताकर्मचारिणां समस्याः स्थायीरूपेण समाधास्यन्ते - मेघवालः
नवदिल्ली, २६ अगस्तमासः (हि.स.)। केन्द्रीयविधि-न्यायमन्त्री अर्जुनराम-मेघवालः अवदत् यत् स्वच्छताकर्मचारिणां समस्याः स्थायीरूपेण समाधास्यन्ते। एतदर्थं आवश्यकता भवति चेत् विधौ आवश्यकानि संशोधनानि अपि करिष्यन्ते। सः अवदत् यत् राष्ट्रीयस्वच्छताकर्मचारी-
समारोह में सफाई कर्मचारियों की सुविधा के लिए मिस्ड कॉल नंबर और प्रधानमंत्री नरेन्द्र मोदी की सफाई कर्मचारियों के साथ तस्वीर वाला कैलेंडर जारी किया गया।  फोटो - रासकआ विज्ञप्ति


नवदिल्ली, २६ अगस्तमासः (हि.स.)। केन्द्रीयविधि-न्यायमन्त्री अर्जुनराम-मेघवालः अवदत् यत् स्वच्छताकर्मचारिणां समस्याः स्थायीरूपेण समाधास्यन्ते। एतदर्थं आवश्यकता भवति चेत् विधौ आवश्यकानि संशोधनानि अपि करिष्यन्ते। सः अवदत् यत् राष्ट्रीयस्वच्छताकर्मचारी-आयोगः अस्मिन् विषये शीघ्रं प्रारूपं प्रस्तुतं करोतु। मेघवालः अवदत् यत् स्वच्छतिकर्मचारिणां जीवनस्तरम् उन्नेतुं तेषां समस्या-समाधानाय च सः प्रधानमन्त्री नरेन्द्रमोदिनः समक्षम् अपि पक्षं स्थापयिष्यति।

सः एतां घोषणां गतदिने राष्ट्रीय-स्वच्छताकर्मचारी-आयोगस्य स्थापना-दिवसस्य द्वात्रिंशद्वर्षपूर्त्युपलक्ष्ये राष्ट्रीय-राजधान्यां स्थिते कॉन्स्टिट्यूशन-क्लब-ऑफ-इण्डिया इत्यत्र आयोजिते समारोहे कृतवान्। समारोहस्य नेतृत्वम् आयोगस्य उपाध्यक्षः हरदीपसिंहगिलः अकरोत्। कार्यक्रमे विभिन्नेभ्यः राज्येभ्यः स्वच्छताकर्मचारिणः, कर्मचारीसङ्गठनानां नेतारः, वाल्मीकि-समाजेन सम्बद्धानां विभिन्नसंस्थानां प्रतिनिधयश्च भागं गृहीतवन्तः। अस्मिन् अवसरे गिलः केन्द्रीयगृहमन्त्रिण: अमितशाहस्य अभिनन्दनसन्देशमपि अपठत्।

समारोहे मुख्यातिथिः अर्जुनराममेघवालः अवदत् यत् वाल्मीकि-समाजस्य अदृश्यनायकानां स्मृतौ केन्द्रसर्वकारः शीघ्रमेव एकं स्मारकं निर्मापयिष्यति। अस्मिन् स्मारके सामाजिके, धार्मिके तथा स्वतन्त्रतासङ्ग्रामे योगदानं दत्तवतां वीराणां चित्राणि स्थापयिष्यन्ते। मेघवालः अवदत् यत् स्थापनादिवसः केवलं कस्यचित् संस्थानस्य यात्रायाः उत्सवः नास्ति, अपितु तेषां लक्षशः सफाईकर्मचारिणां योगदानस्य सम्मानस्य अवसरः अपि अस्ति, ये प्रतिदिनं देशस्य नगराणि, ग्रामान्, संस्थाः सार्वजनिक-स्थानानि च स्वच्छानि सुरक्षितानि च कुर्वन्ति।

मेघवालः अवदत् यत् यथा यथा भारतं विकसितराष्ट्रत्वस्य दिशि अग्रसरं भवति, तथा तथा अस्य स्वच्छताव्यवस्था आधुनिक, वैज्ञानिक, प्रौद्योगिकी-सञ्चालिता पूर्णतया मानवसम्मानानुरूपा च भवेत्। यत् कार्यं यन्त्रेण सुरक्षिततया कर्तुं शक्यते, तदर्थं कस्यापि मानवजीवनस्य संकटे न क्षेपणं करणीयम्।

समारोहं केन्द्रीयसामाजिकन्याय-सशक्तीकरणमन्त्री रामदास आठवले अपि सम्बोधितवान्। सः सफाईकर्मचारिणां जीवनस्तरम् उन्नेतुं निर्मितानां योजनानां प्रभाविरूपेण कार्यान्वयनस्य महत्त्वमवदत्। जनानां स्वास्थ्यस्य रक्षणे, पर्यावरणस्य स्वच्छतायाः संरक्षणे, देशस्य समग्र-कल्याणस्य च प्रवर्धने स्वच्छता-कर्मचारिणां बहुमूल्यं योगदानं प्रशंसित-वान्। आठवलेः अवदत् यत् प्रत्येकः स्वच्छताकर्मचारीसम्मानस्य, सुरक्षायाः, समानावसरस्य सामाजिकन्यायस्य च अधिकारी अस्ति। सः अवदत् यत् असुरक्षितपद्धतीनां स्थाने प्रौद्योगिकीम् आनेतुं भविष्यति। बन्दस्थलेषु समस्या-पूर्णप्रवेशस्य स्थाने यान्त्रीकरणम् आनेतव्यम्। स्वच्छताकर्मचारिणां सुरक्षायाः विषये किमपि सन्धिं कर्तुं न शक्यते।

आयोगस्य उपाध्यक्षः हरदीपसिंहगिलः अवदत् यत् सफाईकर्मचारिणः देशसेवायां महत्त्वपूर्णां भूमिकां निर्वहन्ति। तेषाम् अधिकाराणां सम्मानस्य च रक्षणं सर्वेषां सामूहिकी उत्तरदायित्वम् अस्ति। स्वच्छताकर्मचारिणां परिश्रमेण देशस्य नगराणि ग्रामाश्च स्वच्छाः दृश्यन्ते। अतः तान् केवलं स्वच्छतासेवायाः सम्बद्ध-कर्मचारिरूपेण न, अपितु सम्मानस्य, सुरक्षायाः श्रेष्ठजीवनस्य च अधिकारयुक्ताः जनाः इति दृष्ट्या द्रष्टव्यम्।

समारोहस्य आरम्भः वन्देमातरम्-गीतस्य राष्ट्रगानस्य च गायनेन अभवत्। अस्मिन् अवसरे स्वच्छतिकर्मचारिणां सुविधायै मिस्ड-कॉल्-सङ्ख्या तथा प्रधानमन्त्री-मोदिना स्वच्छताकर्मचारिभिः सह कृतस्य छायाचित्रयुक्तं पञ्चाङ्गमपि प्रकाशितम्। आयोगस्य सदस्यः करमसिंहकरमा तथा सांसदः अनूपप्रधानः अपि स्वविचारान् प्रस्तुतवन्तौ। १९९४ तमे वर्षे आयोगस्य गठनात् आरभ्य स्वच्छताकर्मचारिणां सम्मानार्थम् आयोजितः स्वप्रकारस्य अयं प्रथमः कार्यक्रमः आसीत्।

Hindusthan Samachar / Divya Ranjan