Enter your Email Address to subscribe to our newsletters

कोलकाता, २६ अगस्तमासः (हि.स.)। पश्चिमबङ्गस्य मुख्यमन्त्री शुभेन्दु-अधिकारी बुधवासरे प्रातः मिलाद-उन-नबी-पर्वणः अवसरे प्रदेशवासिभ्यः शुभकामनाः प्रदत्तवान्। सः सूक्ष्म-सन्देश-प्रसारण-माध्यमे ‘एक्स’ इत्यत्र सन्देशं प्रकाशितवान्। अस्मिन् पावने अवसरे सः जनानां सुख-शान्तिं सद्भावनां च कामितवान्।
मुख्यमन्त्रिणा स्वसन्देशे उक्तम्, “मिलाद-उन-नबी-पर्वणः अवसरे शुभकामनाः। अयं दिवसः अस्मान् सद्भावनायाः, परोपकारस्य भ्रातृत्वस्य च मूल्यानि प्रति प्रेरयतु।”
मुख्यमन्त्रिणः अस्मिन् सन्देशे परस्परं भ्रातृत्वस्य, मानवतायाः सौहार्दस्य च प्रवर्धनस्य सन्देशः प्रदत्तः।
Hindusthan Samachar / Divya Ranjan