टपकेश्वरमहादेवस्य शोभायात्रायाम् आगत: आस्थायाः तरंग:, मुख्यमन्त्री धामी सम्मिलितः
देहरादूनम्, २६ अगस्तमासः (हि.स.)। टपकेश्वरमहादेवस्य भव्यायाः शोभा-यात्रायाः अवसरे बुधवासरे राजधानी देहरादूनं सम्पूर्णतया शिवमयं दृश्यते स्म। शोभायात्रायाम् आगतेन श्रद्धालूनां सम्मर्देन, आकर्षकाभिः प्रदर्शिनीभिः, ढोल-नगाडानां वादनेन, ‘हर-हर महादेव’
मुख्यमंत्री पुष्कर सिंह धामी टपकेश्वर यात्रा में शामिल होते हुए।


देहरादूनम्, २६ अगस्तमासः (हि.स.)। टपकेश्वरमहादेवस्य भव्यायाः शोभा-यात्रायाः अवसरे बुधवासरे राजधानी देहरादूनं सम्पूर्णतया शिवमयं दृश्यते स्म। शोभायात्रायाम् आगतेन श्रद्धालूनां सम्मर्देन, आकर्षकाभिः प्रदर्शिनीभिः, ढोल-नगाडानां वादनेन, ‘हर-हर महादेव’ ‘बम-बम भोले’ इत्यादीनां जयघोषैश्च नगरस्य वातावरणं भक्तिमयं जातम्। शोभायात्रायाः मार्गे स्थाने स्थाने श्रद्धालूनां स्वागताय भण्डाराः आयोजिताः सन्ति, यत्र जनानां कृते भोजनं, प्रसादं पेयजलं च वितर्यते।

मुख्यमन्त्री पुष्करसिंहधामी टपकेश्वर-महादेवस्य भव्यायां शोभायात्रायां सम्मिलितः सन् पूजार्चनां कृतवान्। तेन टपकेश्वरमहादेवमन्दिरस्य महन्तेन कृष्णागिरिमहाराजेन, महन्तेन दिगम्बर-भरतगिरिमहाराजेन तथा टपकेश्वर-सेवादलस्य अध्यक्षेण मनोजकुमारगुप्तेन सह विधिविधानपूर्वकं पूजार्चना कृता तथा शोभायात्रायाः शुभारम्भः कृतः। एषा यात्रा सायङ्काल-पर्यन्तं प्रचलिष्यति।

मुख्यमन्त्रिणा भगवान् टपकेश्वरमहादेवात् प्रदेशवासिनां सुखसमृद्धेः, शान्तेः कल्याणस्य च कामना कृता। सः अवदत् यत् देवभूमेः उत्तराखण्डस्य समृद्धाः धार्मिकाः सांस्कृतिकाश्च परम्पराः प्रदेशस्य अमूल्याः धरोहराः सन्ति। धार्मिकाः आयोजनाः समाजे आस्थाम्, एकताम्, परस्परसौहार्दं च सुदृढं कर्तुं सहैव नववंशं स्वसंस्कृत्या परम्पराभिश्च सह संयोजयितुं कार्यं कुर्वन्ति।

सः शोभायात्रायाः आयोजने सम्बद्धेभ्यः साधुसन्तेभ्यः, आयोजनसमित्याः सदस्ये-भ्यः श्रद्धालेभ्यश्च शुभकामनाः प्रदाय उक्तवान् यत् भगवत: टपकेश्वरमहादेवस्य कृपा समस्तप्रदेशवासिषु सततं भवतु तथा उत्तराखण्डः निरन्तरं प्रगतिसमृद्ध्योः मार्गे अग्रे वर्धताम्।

भव्याभिः प्रदर्शिनीभिः श्रद्धालूनां मनांसि आकृष्टानि

शोभायात्रायां भगवत: शिवस्य मातुः पार्वत्याः च सह विविधधार्मिक-पौराणिक-प्रसङ्गाधारिताः आकर्षकाः प्रदर्शिन्यः सम्मिलिताः सन्ति। प्रदर्शिनीनां भव्यसज्जा कलाकाराणां प्रस्तुतयश्च श्रद्धालूनाम् आकर्षणस्य प्रमुखं केन्द्रं वर्तते। कुत्रचित् शिवपार्वत्योः स्वरूपैः भक्तानां ध्यानम् आकृष्टम्, कुत्रचित् च भगवत: शिवस्य विविधस्वरूपाणि प्रदर्शिनीनां माध्यमेन प्रदर्शितानि।

प्रातःकालादेव नगरस्य विभिन्नेभ्यः भागेभ्यः बहुसंख्याकाः शिवभक्ताः शोभायात्रायां सम्मिलितुं आगन्तुम् आरब्धवन्तः। शोभायात्रायाः अग्रे गच्छन्त्याः मार्गे श्रद्धालूनां सङ्ख्या वर्धमाना अभवत्। मार्गस्य उभयतः स्थिताः जनाः प्रदर्शिनीनां दर्शनं कृतवन्तः तथा च अनेकस्थलेषु पुष्पवृष्टिं कृत्वा शोभायात्रायाः स्वागतं कृतवन्तः।

शोभायात्रायाः मार्गे स्थानीयजनैः, सामाजिकसङ्गठनैः विभिन्नसंस्थाभिश्च स्थाने स्थाने भण्डाराः आयोजिताः सन्ति। भण्डारेषु श्रद्धालुभ्यः भोजनं प्रसादं च सह पेयजलमपि उपलब्धं क्रियते। बहुसंख्यकाः जनाः सेवाकार्ये संलग्नाः सन्ति।

सेवाकार्ये संलग्नाः जनाः कथयन्ति यत् भगवत: शिवस्य शोभायात्रायाम् आगच्छतां श्रद्धालूनां सेवा तेषां कृते सौभाग्यस्य विषयः अस्ति। भण्डारेषु स्वागतस्थलेषु च भक्तेषु विशेषः उत्साहः दृश्यते।

ढोल-नगाडानां भक्तिसङ्गीतस्य च मध्ये श्रद्धालवः उत्साहेन शोभायात्रायां सम्मिलिताः भवन्ति। ‘हर-हर महादेव’ ‘बम-बम भोले’ इति जयघोषैः सम्पूर्णः मार्गः गुञ्जायमानः अस्ति। युवानः महिलाः वृद्धाश्च बहुसंख्यया शोभायात्रायाः भागिनः अभवन्।

शोभायात्राम् उद्दिश्य आरक्षक-प्रशासनाभ्यां सुरक्षायाः यातायात-व्यवस्थायाश्च प्रबन्धः कृतः अस्ति। मार्गे श्रद्धालूनां महान्तं सम्मर्दं दृष्ट्वा आरक्षककर्मचारिणः व्यवस्थां पालयन्तः दृश्यन्ते तथा पूर्वमेव यात्रायाः यातायात-योजनापि प्रकाशितास्ति।

Hindusthan Samachar / Divya Ranjan