मुख्यमंत्री योगी 'लोकमाता अहिल्याबाई मातृशक्ति यात्रा'इत्यस्याः योजनायाः शुभारंभः कृतः
-60 वर्षं वा ततोऽधिकवयस्काः महिलाः 29 दिनाङ्कतः यू.पी.एस्.आर्.टी.सी.-बसयाने निःशुल्कं यात्रां कर्तुं शक्नुवन्ति लखनऊम्, 26 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे उत्तरप्रदेशस्य 60 वर्षं तथा ततोऽधिकवयस्कानां महिलानां कृते निःशुल्क
मुख्यमंत्री


-60 वर्षं वा ततोऽधिकवयस्काः महिलाः 29 दिनाङ्कतः यू.पी.एस्.आर्.टी.सी.-बसयाने निःशुल्कं यात्रां कर्तुं शक्नुवन्ति

लखनऊम्, 26 अगस्तमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः बुधवासरे उत्तरप्रदेशस्य 60 वर्षं तथा ततोऽधिकवयस्कानां महिलानां कृते निःशुल्कबसयात्रासुविधां प्रदास्यमानायाः ‘लोकमाता अहिल्याबाई मातृशक्ति यात्रा’ योजनायाः शुभारम्भं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्रिणा विशेषबसानां हरितध्वजं प्रदर्श्य प्रस्थानं कारितम्। अस्याः योजनायाः अन्तर्गतं रक्षाबन्धनपर्वणः अवसरे उत्तरप्रदेशसर्वकारस्य पक्षतः मातॄणां, भगिनीनां, पुत्रीणां च सहयात्रिणा सह निःशुल्कबसयात्रायाः सुविधा प्रदास्यते।

मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् अद्य द्विविधसुविधायुक्तायाः योजनायाः शुभारम्भः क्रियते। मन्त्रिणा दयाशङ्कर-सिंहेन पृष्टे सति यत् किं करणीयमिति, वयं उक्तवन्तः यत् सर्वेषु 75 जनपदेषु आयोजनं भवति। मातॄभ्यः भगिनीभ्यश्च मिष्टान्नं ददातु तथा रक्षाबन्धनस्य शुभकामनाः प्रददातु। इयं योजना लोकमाता अहिल्याबाई होलकरस्य नाम्ना प्रारभ्यते। महिलास्वावलम्बने अहिल्याबायाः महत्त्वपूर्णं योगदानम् आसीत्।

मुख्यमन्त्री अवदत् यत् यदा देशः मुगल-आक्रान्तानां पाशे आसीत्, तदा सा सुशासनस्य स्थापनया सह भारतस्य संस्कृतेः धार्मिकमान्यतानां च सुदृढीकरणं कृत्वा महिलास्वावलम्बनस्य आदर्शं प्रस्तुतवती। न्यायस्य कसौट्याम् तया यत् निर्धारितं कृतम्, तत् अद्य अस्माकं सर्वेषां पुरतः विद्यते। तस्मिन् समये लोकमातया मन्दिराणां जीर्णोद्धारस्य कार्यमपि कृतम् आसीत्। अस्याः योजनायाः अन्तर्गतं 60 वर्षं वा ततोऽधिकवयस्का महिला एकेन सहयात्रिणा सह यात्रां कर्तुं शक्नोति।

परिवहनराज्यमन्त्री (स्वतन्त्रप्रभारः) दयाशङ्कर-सिंहः अवदत् यत् अद्य महिलाः प्रत्येकस्मिन् क्षेत्रे कार्यं कृत्वा स्वप्रतिभां प्रदर्शयन्ति। महिलाः कदाचित् मातृरूपेण, कदाचित् पुत्रीरूपेण, कदाचित् पत्नीस्वरूपेण च जीवनपर्यन्तम् अस्माकं साथं ददति। वयं तासां सम्मानं कुर्मः। मुख्यमन्त्रिणा एतां योजनां प्रदाय महिलानां यः सम्मानः कृतः, तं ताः जीवनपर्यन्तं स्मरिष्यन्ति। अद्य विमानपत्तनसदृशानां 23 बसस्थानकानां निर्माणं उत्तरप्रदेशे क्रियमाणम् अस्ति। अत्याधुनिकाः बसाः सञ्चाल्यन्ते। तासु बसयानेषु महिलानां सुरक्षायाः विशेषं ध्यानं दीयते। एतद्वत् दयाशङ्कर-सिंहेन स्वविभागस्य उपलब्धीनां विस्तरेण विवरणमपि प्रदत्तम्।

अस्मिन् अवसरे राज्यसभासदस्यः बृजलालः, लखनऊ-महानगरस्य महापौरः सुषमा खर्कवालः इत्यादयः जनप्रतिनिधयः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani