Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, २६ अगस्तमासः (हि.स.)। रक्षाबन्धनपर्वणः पूर्वसन्ध्यायां मातृशक्तेः सम्मानस्य सुविधायाश्च उपहारः प्रदत्तः। बरकछास्थिते राजीवगान्धी-दक्षिणी-परिसरस्य सभागारे बुधवासरे लोकमाता-अहिल्याबाई-मातृशक्तियोजनायाः शुभारम्भस्य भव्यः कार्यक्रमः आयोजितः। लखनऊतः मुख्यमन्त्रिणः योगी आदित्य-नाथस्य कार्यक्रमस्य सजीवप्रसारणं कृतम्।
कार्यक्रमे मन्त्रीमण्डलस्य मन्त्री आशीषपटेलः, मझवांविधानसभाक्षेत्रस्य विधायक सुचिस्मितामौर्या, मड़िहान-विधानसभाक्षेत्रस्य विधायकः रमाशंकर-सिंहपटेलः, सहकारिताध्यक्षः जगदीश-सिंहपटेलः, जनपदाधिकारी पवनकुमार-गंगवारश्च सरस्वत्याः चित्रे माल्यार्पणं दीपप्रज्वलनं च कृत्वा कार्यक्रमस्य शुभारम्भम् अकुर्वन्। अस्मिन् अवसरे ५०० मातृभ्यः भगिनीभ्यश्च साटिकां मिष्टान्नस्य पुटकं च प्रदाय सम्मानिताः।
मन्त्रिमण्डलस्य मन्त्री आशीषपटेलः अवदत् यत् रक्षाबन्धनपर्वणि मुख्य-मन्त्रिणा महिलाभ्यः महान् उपहार: प्रदत्त: अस्ति। अगस्तमासस्य २७ दिनाङ्कस्य प्रातः षड्वादनतः २९ दिनाङ्कस्य मध्यरात्रिपर्यन्तं परिवहन-निगमस्य बसयानेषु मातृभ्यः, भगिनीभ्यः, पुत्रीभ्यश्च एकेन सहयात्रिणा सह निःशुल्कयात्रायाः सुविधा प्राप्स्यते।
तेन उक्तं यत् योजनायाः अन्तर्गतं षष्टिवर्षीयाभ्यः तदधिकवयस्काभ्यः मातृभ्यः उत्तरप्रदेशपरिवहननिगमस्य बसयानेषु आजीवनं निःशुल्कयात्रायाः सुविधा प्राप्स्यते। तेन उक्तं यत् सर्वकारः महिलानां सुरक्षा-सम्मान-स्वावलम्ब-नानां प्राथमिकतां ददाति।
मझवांविधानसभाक्षेत्रस्य विधायक सुचि-स्मितामौर्या तथा मड़िहानविधान-सभाक्षेत्रस्य विधायकः रमाशंकरसिंह-पटेलश्च अपि योजनां महिलाभ्यः उपयोगिनीं कथयित्वा रक्षाबन्धनपर्वणः शुभकामनाः प्रदत्तवन्तौ। कार्यक्रमे बहुसंख्याकाः मातरः, भगिन्यः, जनप्रतिनिधयः अधिकारिणश्च उपस्थिताः आसन्।
/ अंशु गुप्ता