Enter your Email Address to subscribe to our newsletters

— सम्पूर्णानन्दसंस्कृतविश्वविद्यालये हरिवंशपुराणकार्यशालायाः महारुद्रयज्ञस्य च पूर्णाहुतिः
वाराणसी, २६ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य योग-साधनाकन्द्रे बुधवासरे हरिवंशपुराण-कार्यशालायाः विशेषसत्रं वेदविभागेन सञ्चालितस्य महारुद्रयज्ञस्य च पूर्णाहुतिः सम्पन्ना। योगसाधनाकन्द्रे एव श्रीकाशीविद्वद्धर्मपरिषदः (स्थापिता—श्रीश्री१००८ श्रीमौनीबाबा चैरिटेबल ट्रस्ट, काशी, उत्तरप्रदेश) तत्त्वावधाने अभिनन्दनसमारोहस्य आयोजनमपि कृतम्।
समारोहे अखिलभारतीयहिन्दूमहासभायाः राष्ट्रीयाध्यक्षस्य धर्माचार्यप्रकोष्ठस्य प्रमुखस्य महाराष्ट्रप्रदेशस्य अखिल-भारतीयसन्तसमितेः प्रमुखस्य च श्रीमहन्तवेदाचार्यपीठाधीश्वरस्य स्वामिनः डॉ. अनिकेतशास्त्रिणः अभिनन्दनमपि कृतम्। समारोहे डॉ. अनिकेतशास्त्री अवदत् यत् श्रीकाशीविद्वद्धर्मपरिषदा कृतमिदम् अभिनन्दनम् अस्माकं कृते गौरवस्य हर्षस्य च विषयः अस्ति। सिद्धसन्तस्य नाम्ना स्थापितस्य श्रीश्री १००८ श्रीमौनी-बाबा चैरिटेबल-न्यासस्य माध्यमेन अस्याः परिषदः सञ्चालनं भवति, एतत् स्वयमेव गौरवपूर्णम् अस्ति।
तेन उक्तं यत् अनेन अभिनन्दनेन केवलं तस्य व्यक्तिगतः मानसम्मानः न वर्धितः, अपितु अनेकासां सन्तपरम्पराणामपि सम्मानः जातः। अस्माकम् अभिनन्दनं कृत्वा परिषदः सनातनधर्मस्य, संस्कृतेः, परम्परायाश्च संरक्षणाय अस्मभ्यं अधिका शक्ति: प्रदत्ता अस्ति। विगतेषु कतिपयेषु वर्षेषु नासिक-त्र्यम्बकेश्वरादीनां कुम्भ-क्षेत्राणां सर्वकारैः यथा अपेक्षित-शास्त्रीयमर्यादानुरूपं सञ्चालनं न कृतम्, तस्य दृष्ट्या अधुना समयः आगतः यत् परिषदः विद्वांसः शास्त्रीयेन धर्मसम्मतेन च प्रकारेण एतादृशानाम् आयोजनानां सञ्चालनाय व्यवस्थापनाय च सर्वकाराय आवश्यकनिर्देशान् प्रदद्युः।
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य गौरवस्य उल्लेखं कुर्वन् तेन उक्तं यत् विश्वस्य प्राचीनतमासु गौरवशालिनीषु संस्कृतसंस्थासु परिगणितस्य अस्य विश्वविद्यालयस्य अद्यावधि केन्द्रीय-राष्ट्रीयस्तरे एव न, अपितु अन्ताराष्ट्रिय-संस्कृतविश्वविद्यालयस्य स्वरूपमपि प्राप्तं भवितव्यम् आसीत्।
अस्मिन् अवसरे परिषदः कार्यकारीाध्यक्षः पं. कमलाकान्तत्रिपाठी डॉ. अनिकेत-शास्त्रिणः अभिनन्दनपत्रस्य वाचनं कुर्वन् तस्य व्यक्तित्वस्य, कृतित्वस्य, आध्यात्मिक-साधनायाः विभिन्नेषु क्षेत्रेषु च क्रियमाणस्य विशिष्ट-योगदानस्य उल्लेखं कृतवान्।
समारोहे विश्वविद्यालयस्य कुलपतिः प्रो. बिहारीलालशर्मा परिषदः प्राप्तस्य अभिनन्दनस्य प्रति कृतज्ञतां प्रकटितवान्। तेन उक्तं यत् एतत् सम्मानं विश्वविद्यालयस्य संवर्धनाय उत्कर्षाय च अस्मभ्यं अधिकां प्रेरणां बलं च प्रदास्यति। कुलपतेः प्रो. शर्मणः अभिनन्दनपत्रस्य वाचनं प्रो. धर्मदत्तचतुर्वेदिना कृतम्। कार्यक्रमस्य अध्यक्षता परिषदः अध्यक्षः पं. छोटेलालत्रिपाठी अकरोत्।
ततः पूर्वं कार्यक्रमस्य प्रस्तावनां मौनीबाबा चैरिटेबल ट्रस्ट-न्यासस्य मुख्यन्यासी तथा गुरुकुल-मन्दिरसेवायोजनाप्रमुखः जम्मू-कश्मीरप्रान्तस्य डॉ. अभिषेककुमार-उपाध्यायः प्रस्तुतवान्।
समारोहे अखिलभारतहिन्दूमहासभायाः राष्ट्रीयाध्यक्षः डॉ.मुन्नाकुमारशर्मा, पं. विजयशर्मा, पं. दुर्गेशपाठकः, प्रो. सुधाकरमिश्रः, प्रो. रामपूजनपाण्डेयः, डॉ. उमंगनाथशर्मा, प्रो. महेन्द्रनाथपाण्डेयः इत्यादीनां जनानां उपस्थितिः आसीत्।
Hindusthan Samachar / Divya Ranjan