बङ्गालस्य पर्यटनक्षेत्राणि नव्यरूपेण सुसज्जीकर्तुं शुभेन्दुसर्वकारस्य सज्जता
कोलकाता, २६ अगस्तमासः (हि.स.)। पश्चिमबङ्गाले पर्यटन-उद्योगस्य नव्य-रूपेण विकासाय सज्जता प्रारब्धा अस्ति। दार्जिलिङ्गे पर्यटकानां सुविधायै रज्जुमार्गसेवां सुदृढां कर्तुं सहैव सुन्दरबने विलासपूर्ण-क्रूजयानस्य अथवा नदी-पर्यटनस्य प्रारम्भस्य योजना निर्
बैठक करते मुख्यमंत्री शुभेंदु अधिकारी


रोपवे की तस्वीर


कोलकाता, २६ अगस्तमासः (हि.स.)। पश्चिमबङ्गाले पर्यटन-उद्योगस्य नव्य-रूपेण विकासाय सज्जता प्रारब्धा अस्ति। दार्जिलिङ्गे पर्यटकानां सुविधायै रज्जुमार्गसेवां सुदृढां कर्तुं सहैव सुन्दरबने विलासपूर्ण-क्रूजयानस्य अथवा नदी-पर्यटनस्य प्रारम्भस्य योजना निर्मीयते। अपि च दीघा, मन्दारमणि, पुरुलिया, झाडग्रामः, नवद्वीपः इत्यादीनां राज्यस्य प्रमुखपर्यटनकेन्द्राणां विकासेऽपि विशेषं बलं प्रदास्यते।

मङ्गलवासरे नवान्ने मुख्यमन्त्रिणः शुभेन्दु-अधिकारीणः उपस्थितौ पर्यटन-विभागस्य अधिकारिभिः सह उच्चस्तरीया सभा अभवत्। सभायां पर्यटन-उद्योगं अधिकमाकर्षकं कर्तुं बहवः महत्त्वपूर्णाः निर्णयाः स्वीकृताः। अस्मिन् क्रमे पर्यटनविभागस्य नूतनं प्रतीकचिह्नं निर्मास्यते इति अपि निर्धारितम्, यस्य अनावरणं मुख्यमन्त्री करिष्यति।

सभायां मुख्यमन्त्रिणा सह राज्यस्य पर्यटनमन्त्री शङ्करघोषः, मुख्यसचिवः मनोज-अग्रवालः, मुख्यमन्त्रिणः प्रधान-परामर्शदाता सुब्रतगुप्तः, वित्तसचिवः प्रशासनस्य च अन्ये वरिष्ठाधिकारिणः उपस्थिताः आसन्।

नवान्न-सूत्रानुसारं मुख्यमन्त्री पर्यटनविभागस्य सर्वासां सम्पत्तीनां आधुनिकीकरणे तथा विभिन्नसम्बद्धविभागानां मध्ये उत्तमसमन्वयस्य स्थापनायां बलं दत्तवान्। पर्वतीयपर्यटनस्य प्रोत्साहनाय दार्जिलिङ्गे रज्जुमार्गसेवां सुदृढां कर्तुं योजना अस्ति, येन पर्यटकाः यातायातस्य समस्यां विना पर्वतानां प्राकृतिकसौन्दर्यस्य आनन्दं प्राप्तुं शक्नुयुः।

सुन्दरबनस्य नदीमार्गेषु विलासपूर्ण-क्रूजयानस्य अथवा नदी-पर्यटनस्य प्रारम्भस्य योजना अस्ति। अनेन पर्यटकाणां कृते सुन्दरवनस्य यात्राम् अधिकाकर्षकीं कर्तुं प्रयत्नः क्रियते।

दीघा-मन्दारमण्योः इव लोकप्रियेषु समुद्रतटीयपर्यटनकेन्द्रेषु पर्यटकानां मनोरञ्जनाय वेगनौकानां सञ्चालनस्य निर्णयः अपि कृतः। तथापि पर्यटनविकासेन सह पर्यटकाणां सुरक्षायाः सर्वोच्चं प्राधान्यं दीयते।

एतदर्थं सुन्दरबने तथा दीघा-मन्दारमणिक्षेत्रे आपत्कालीनसेवानां कृते जल-रुग्णवाहिकाः उद्धारनौकाश्च सर्वदा सज्जाः स्थापयितुं व्यवस्था करिष्यते।

पर्यटनविभागस्य अस्याः नूतनयोजनायाः माध्यमेन पर्वताः, समुद्रः, वनानि, धार्मिकपर्यटनं च—सर्वेषु क्षेत्रेषु आधुनिकसुविधाः संयोज्य पश्चिमबङ्गालं देशस्य प्रमुखेषु पर्यटनकेन्द्रेषु अधिकं सुदृढं कर्तुं सज्जता क्रियते।

Hindusthan Samachar / Divya Ranjan