सिंक्रोनस-कण्डेन्सर-प्रौद्योगिक्या बीएचईएल-संस्थायै नूतनाः व्यावसायिकावसराः प्राप्स्यन्ति - रञ्जनकुमारः
हरिद्वारम्, २६ अगस्तमासः (हि.स.)। बीएचईएल-हरिद्वारस्य कार्यपालक-निदेशकः रञ्जनकुमारः अवदत् यत् भविष्ये बृहत्प्रमाणेन सौरशक्तेः विद्युत्जा-लके संयोजनेन सह विद्युत्जालकस्य स्थिरतां स्थापयितुं महती समस्या भविष्यति। अतः सिंक्रोनस-कण्डेन्सर-प्रौद्योगिक्य
दीप प्रज्ज्वलित कर कार्यक्रम का शुभारंभ करते हुए


हरिद्वारम्, २६ अगस्तमासः (हि.स.)। बीएचईएल-हरिद्वारस्य कार्यपालक-निदेशकः रञ्जनकुमारः अवदत् यत् भविष्ये बृहत्प्रमाणेन सौरशक्तेः विद्युत्जा-लके संयोजनेन सह विद्युत्जालकस्य स्थिरतां स्थापयितुं महती समस्या भविष्यति। अतः सिंक्रोनस-कण्डेन्सर-प्रौद्योगिक्याः भूमिका महत्त्वपूर्णा भविष्यति। एषा प्रौद्योगिकी बीएचईएल-संस्थायै नूतनान् व्यावसायिकावसरान् अपि सृजितुं शक्नोति।

बीएचईएल-हरिद्वारस्थिते मानवसंसाधन-विकासकेन्द्रे आयोजितस्य द्विदिवसीय-प्रशिक्षणकार्यक्रमस्य उद्घाटनसत्रं सम्बोधयन् रञ्जनकुमारः अवदत् यत् सिंक्रोनस-कण्डेन्सरस्य वर्धमानप्रयोगं दृष्ट्वा बीएचईएल-संस्था अस्मिन् क्षेत्रे स्वकीयां तकनीकीं व्यावसायिकां च क्षमतां सुदृढां करोति। तापविद्युत्क्षेत्रस्य इव सिंक्रोनस-कण्डेन्सरस्य विपण्येऽपि सुदृढं स्थानं निर्मातुं संस्था प्रयतते।

तेन उक्तं यत् परिवर्तमान-ऊर्जापरिदृश्ये नवीकरणीयऊर्जायाः वर्धमानसहभागितया सह विद्युत्जालकस्य स्थिरतां विश्वसनीयतां च सुनिश्चितं कर्तुम् आवश्यकम् अस्ति। अस्मिन् दिशि सिंक्रोनस-कण्डेन्सरः महत्त्वपूर्णं तकनीकीसमाधानरूपेण उद्भवति।

महाप्रबन्धकः नरेन्द्रसिंहराणा अवदत् यत् सिंक्रोनस-कण्डेन्सरः वोल्टेज-नियन्त्रणे, रिएक्टिव-शक्तेः सहाय्ये, लघुपरिपथ-क्षमतायाः वर्धने तथा विद्युत्जालकस्य विश्वसनीयतायाः संरक्षणे च महत्त्वपूर्णां भूमिकां निर्वहति। महाप्रबन्धकः सन्तोष-कुमारगुप्तः प्रति-भागिभ्यः विषय-विशेषज्ञानां अनुभवस्य तकनीकी-मार्गदर्शनस्य च अधिकतमं लाभं ग्रहीतुं आह्वानं कृतवान्।

बीएचईएल-हरिद्वारस्य तथा कॉरपोरेट्-आर् एण्ड डी, हैदराबादस्य च संयुक्त-तत्त्वावधाने आयोजिते प्रशिक्षण-कार्यक्रमे सिंक्रोनस-कण्डेन्सरस्य अभि-कल्पना, प्रौद्योगिकी, प्रयोगः, विद्युत्जालके एकी-करणम्, निर्माणं, परीक्षणं तथा भविष्यस्य व्यावसायिक-सम्भावनाभिः सम्बद्धेषु विविधेषु पक्षेषु विशेषज्ञैः सूचना प्रदीयते।

कार्यक्रमे केन्द्रीयविद्युत्प्राधिकरणस्य, ट्रान्समिशन-यूटिलिटी-ऑफ्-इण्डिया-लिमिटेड्-संस्थायाः, ग्रिड्-कण्ट्रोलर्-ऑफ्-इण्डिया-लिमिटेड्-संस्थायाः, सेण्ट्रल्-ट्रान्समिशन्-यूटिलिटी-ऑफ्-इण्डिया-लिमिटेड्-संस्थायाः, एनटीपीसी-संस्थायाश्च विशेषज्ञैः सह बीएचईएल-संस्थायाः तकनीकीविशेषज्ञाः प्रतिभागिनां मार्गदर्शनं कुर्वन्ति।

अस्मिन् अवसरे अपरमहाप्रबन्धकः डॉ. प्रतापचन्द्रबेहेरा, आशागुप्ता, हरीशसिंह-बगवारः इत्यादयः बीएचईएल-संस्थायाः अन्ये वरिष्ठाधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan