ऊर्जामन्त्री ए.के. शर्मा जौनपुरे विकासकार्याणां समीक्षां कृतवान्
जौनपुरम्, २७ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदस्य प्रभारी ऊर्जामन्त्री ए.के. शर्मा गुरुवासरे एकदिवसीययात्रायै जौनपुरं प्राप्तवान्। सः अधिकारिभिः, विधानसभासदस्यैः तेषां प्रतिनिधिभिः, दलकार्यकर्तृभिश्च सह सभां कृत्वा जनपदे प्रचलितानां विका
प्रभारी मंत्री ए के शर्मा अधिकारियों को आवश्यक निर्देश देते हुए


प्रभारी मंत्री ए के शर्मा विकाश कार्यों की समीक्षा बैठक लेते हुए


जौनपुरम्, २७ अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य जौनपुरजनपदस्य प्रभारी ऊर्जामन्त्री ए.के. शर्मा गुरुवासरे एकदिवसीययात्रायै जौनपुरं प्राप्तवान्। सः अधिकारिभिः, विधानसभासदस्यैः तेषां प्रतिनिधिभिः, दलकार्यकर्तृभिश्च सह सभां कृत्वा जनपदे प्रचलितानां विकासकार्याणां राजनैतिकगतिविधीनां च विषये सूचनां प्राप्तवान्। अस्मिन् अवसरे सः विगतमासे सम्पादितानां विकासकार्याणां प्रगतेः अपि समीक्षां कृतवान्।

वार्ताहरैः सह वार्तालापे प्रभारीमन्त्री अवदत् यत् सः समये समये शासकीयव्यवस्थानां, विकासकार्याणां, राजनैतिकपरिस्थितीनां च समीक्षां करोति। अस्यैव क्रमस्य अन्तर्गतं जौनपुरस्य यात्रा कृता अस्ति। सः अवदत् यत् भाजपायाः जनपदाध्यक्षस्य उपस्थितौ दलस्य राजनैतिकसहयोगिभिः सह सभा कृता। ततः जनपदाधिकारिणा, आरक्षकाधीक्षकेण, मुख्यविकासा-धिकारिणा अन्यैश्च अधिकारिभिः सह सभां कृत्वा विकासकार्याणां समीक्षा कृता।सः अवदत् यत् विगतमासे वर्तमानमासे च सम्पादितानां कार्याणां प्रगतेः अवलोकनं कृतम्। अद्यावधि कृतायां समीक्षायां जनपदप्रशासनस्य कार्याणि उत्तमानि इति कथयन् सः अवदत् यत् शासनस्य योजनाः विकासकार्याणि च निर्धारित-प्राथमिकता-नुसारम् अग्रे वर्ध्यन्ते।

समाजवादीपक्षस्य पक्षतः महिलासम्बद्धेषु विषयेषु उत्थाप्यमानानां प्रश्नानां विषये सः अवदत् यत् समाजवादीपक्षस्य नेतारः सर्वप्रथमं महिलाः प्रति स्वदृष्टिकोणे परिवर्तनम् आनेतुम् आवश्यकम्। सः २०१७ तमवर्षात् पूर्वं प्रदेशे महिलाभिः सह घटितानां घटनानां उल्लेखं कृत्वा अवदत् यत् तस्मिन् समये विद्यमानाः परिस्थितयः कस्मादपि गुप्ताः न सन्ति।

नेपालदेशे उत्पन्नायां प्राकृतिकविपत्तौ प्रभारीमन्त्री गभीरं दुःखं प्रकटितवान्। सः आहतानां शीघ्रस्वास्थ्यलाभाय शुभकामनां प्रदाय मृतानां परिजनेभ्यः संवेदनां प्रकटितवान्। सः मृतात्मनां शान्तये शोकसन्तप्तपरिवाराणां च एतद्दुःखं सोढुं शक्तिप्राप्तये प्रार्थितवान्।

शर्मा २०१३ तमे वर्षे केदारनाथे उत्पन्नाम् आपदां स्मृत्वा अवदत् यत् तस्यां त्रासद्यां बहूनां जनानां प्राणाः नष्टाः तथा सम्पत्तेः अपि महती हानिः अभवत्। सः अवदत् यत् तस्मिन् समये गुजरातस्य मुख्यमन्त्री आसीनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना सह सः अपि केदारनाथं गतवान् आसीत्। अतः सः प्राकृतिकापद्भिः प्रभावितानां जनानां पीडां सम्यक् अवगन्तुं शक्नोति। सः नेपालस्य प्राकृतिकविपत्त्या प्रभावितेभ्यः सर्वेभ्यः जनेभ्यः गभीरां संवेदनां प्रकटितवान्।

Hindusthan Samachar / Divya Ranjan