असमस्य डेयरीक्षेत्रं दृढतायै राज्यपालेन एनडीआरआई इत्यस्य विशेषज्ञता याचिता
गुवाहाटी, 27 अगस्तमासः (हि.स.)। असमस्य राज्यपालः लक्ष्मणप्रसादाचार्यः नवदिल्ल्यां राष्ट्रियदुग्धानुसन्धानसंस्थानस्य (एनडीआरआई) निदेशकेन डॉ. धीरसिंहेन सह मिलित्वा असमस्य दुग्धक्षेत्रं आधुनिकं, प्रौद्योगिकी-आधारितं कृषककेन्द्रितं च कर्तुं संस्थानस्
Assam Governor Lakshman Prasad Acharya meeting National Dairy Research Institute (NDRI) Director Dr. Dheer Singh.


गुवाहाटी, 27 अगस्तमासः (हि.स.)।

असमस्य राज्यपालः लक्ष्मणप्रसादाचार्यः नवदिल्ल्यां राष्ट्रियदुग्धानुसन्धानसंस्थानस्य (एनडीआरआई) निदेशकेन डॉ. धीरसिंहेन सह मिलित्वा असमस्य दुग्धक्षेत्रं आधुनिकं, प्रौद्योगिकी-आधारितं कृषककेन्द्रितं च कर्तुं संस्थानस्य विशेषज्ञतां याचितवान्।

राज्यपालेन दुग्धसहकारिता, आधुनिकप्रौद्योगिकी, कौशलविकासः, वैज्ञानिकहस्तक्षेपः, उत्तमविपणिसम्पर्कश्च सुदृढीकर्तुं विशेषः बलः प्रदत्तः। तेन एनडीआरआई-संस्थानस्य विशेषज्ञेभ्यः असमस्य दुग्धक्षेत्रस्य व्यापकं अध्ययनं कृत्वा सुधारार्थं तकनीकीसुझावान् दातुं अनुरोधः कृतः।

तेन विशेषज्ञानाम् असमभ्रमणस्य तथा च ग्रामीणयुवभ्यः दुग्धक्षेत्रे रोजगारस्य उद्यमितायाश्च अवसरान् प्रदातुं कौशलविकासकार्यक्रमस्य आरम्भस्य प्रस्तावोऽपि प्रस्तुतः।

राज्यपालेन आशा व्यक्ता यत् एनडीआरआई असमस्य दुग्धक्षेत्रस्य विकासे दीर्घकालिकः ज्ञानसहभागी भविष्यति।

----------

Hindusthan Samachar / Dheeraj Maithani