Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २७ अगस्तमासः (हि.स.)। ब्रिक्स-शिखरसम्मेलनं १२-१३ सितम्बर-दिनाङ्कयोः नवदिल्ली इत्यत्र भारत-मण्डपे आयोजितं भविष्यति। सम्प्रति भारतं ब्रिक्स-सङ्घटनस्य अध्यक्षतां वहति तथा अष्टादशस्य शिखरसम्मेलनस्य आतिथ्यं करिष्यति। अस्मिन् सम्मेलने ब्रिक्स-सदस्यदेशानां सर्वकारप्रमुखाः राष्ट्र-प्रमुखाश्च सम्मिलिताः भविष्यन्ति।
विदेशमन्त्रालयेन गुरुवासरे सूचितं यत् भारतस्य ब्रिक्स-अध्यक्षता ‘शिथिलता, नवोन्मेषः, सहयोगः, स्थिरतायै निर्माणं च’ इति विषयेण निर्देशिता भविष्यति। एतत् प्रधानमन्त्रिणः ‘मानवतायाः सर्वोच्चं स्थानम्’ इति भावनायाः आधारेण जनकेन्द्रितदृष्टिकोणं प्रतिबिम्बयति।ब्रिक्स-सङ्घटने उक्तानां विषयाणां अतिरिक्तं नेतारः समानप्राथमिकतानां विषये ब्रिक्स-सङ्घटने अन्तर्गतं सहयोगं सुदृढं कर्तुं विचारविनिमयं करिष्यन्ति तथा परस्परहितसम्बद्धेषु वैश्विकेषु क्षेत्रीयेषु च विषयेषु स्वदृष्टिकोणान् प्रस्तुतं करिष्यन्ति।
भारतस्य अध्यक्षतायां वर्षपर्यन्तं विविधाः कार्यक्रमाः आयोजिताः सन्ति। ब्रिक्सस्य सामरिकसहभागिता त्रिषु मूलभूतेषु स्तम्भेषु आधारितास्ति— राजनैतिकं सुरक्षासम्बद्धं च, आर्थिकं वित्तीयं च, सांस्कृतिकं जनानां परस्पर-विनिमय-सम्बद्धं च। एतां सहभागितां सुदृढां कर्तुं भारतस्य २५ तः अधिकेषु नगरेषु ३५० तः अधिकाः सभाः उच्चस्तरीयाः विचार-विमर्शाश्च आयोजिताः सन्ति।
उल्लेखनीयं यत् भारतं ब्रिक्स-सङ्घटनस्य संस्थापकसदस्यम् अस्ति। भारतं पूर्वं २०१२, २०१६, २०२१ इत्येतेषु वर्षेषु त्रिवारं ब्रिक्सस्य अध्यक्षतां कृतवान्। भारतं २०२६ तमस्य वर्षस्य जनवरीमासस्य प्रथमदिने चतुर्थवारं ब्रिक्सस्य अध्यक्षतां स्वीकृतवान्। वर्षम् २०२६ महत्त्वपूर्णं सोपानं सूचयति। अस्मिन् वर्षे ब्रिक्स-सङ्घटनस्य स्थापनायाः विंशतिवर्षाणि पूर्णानि भवन्ति।
Hindusthan Samachar / Divya Ranjan