प्रधानमन्त्रिणा सह मिलितवान् मुख्यमन्त्री सैनी, नूतन-औद्योगिकनीतिभिः सह अनेकेषु विषयेषु चर्चा
नवदिल्ली, २७ अगस्तमासः (हि.स.)। हरियाणाराज्यस्य मुख्यमन्त्री नायब-सिंहसैनी गुरुवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह साक्षात्कारं कृतवान्। सैनी प्रधानमन्त्रिणं हरियाणाराज्यस्य नूतनायाः औद्योगिकनीतेः विषये अग्रिम-विधानसभासत्रस्य विषये च अवगतं कृतव
प्रधानमंत्री मोदी से मिले मुख्यमंत्री नायब सिंह सैनी,  कई समसामयिक विषयों पर हुई चर्चा


नवदिल्ली, २७ अगस्तमासः (हि.स.)। हरियाणाराज्यस्य मुख्यमन्त्री नायब-सिंहसैनी गुरुवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह साक्षात्कारं कृतवान्। सैनी प्रधानमन्त्रिणं हरियाणाराज्यस्य नूतनायाः औद्योगिकनीतेः विषये अग्रिम-विधानसभासत्रस्य विषये च अवगतं कृतवान्।

साक्षात्कारस्य अनन्तरं हरियाणाभवने आयोजिते वार्ताहरसम्मेलने मुख्यमन्त्री सैनी अवदत् यत् तेन प्रधानमन्त्रिणं विगतदिनेभ्यः प्रकाशितायाः नूतनायाः औद्योगिकनीतेः विषये सूचितम्। जापानदेशस्य यात्राकाले प्राप्तस्य निवेशस्य विषये अपि तेन प्रधानमन्त्रिणे सूचना प्रदत्ता। तदतिरिक्तं लघुमध्य-मोद्यमनीतेः, विधानसभासत्रस्य, हरियाणा इत्यत्र प्रचलतां विभिन्नविकास-कार्याणां च विषये प्रधानमन्त्रिणं सूचितम्।

गुरुग्रामनगरे जलप्लावनस्य विषये पृष्टे प्रश्नस्य उत्तरं ददन् मुख्यमन्त्री सैनी अवदत् यत् सर्वकारः विगतेषु द्वादशवर्षेषु गुरुग्रामनगरे विकासकार्याणि तीव्रगत्या करोति। गुरुग्रामनगरे जलनिष्कासनस्य व्यवस्थाः कृताः सन्ति। सामान्यापेक्षया अधिका वृष्टिः अभवत्, यस्याः कारणेन एतादृशी स्थितिः उत्पन्ना। यमुनानगरस्य अनन्तरं सर्वाधिकवृष्टिः गुरुग्रामनगरे अभवत्। तथापि अतिवृष्ट्या सञ्चितस्य जलस्य शीघ्रं निष्कासनं कृतम् तथा नालिकानां पङ्कमलनिष्कासनमपि कृतम्। जलप्लावनस्य ९९ स्थानेषु जल-सञ्चयनस्य कार्यं कृतम्। नूतननालानां निर्माणेन सह तेषु विद्यमानम् अतिक्रमणमपि निष्कासितम्, येन समस्यायाः किञ्चित् समाधानं जातम्।

सः सूचितवान् यत् अरावलीपर्वतात् आगतं जलमपि अधः प्रवहति। ७४ तडागाः १२ किलोमीटर-दीर्घा सरोवरश्च सुव्यवस्थितौ कृतौ स्तः। अस्मिन् वर्षे हरितपट्टिका मार्गात् उन्नता आसीत्, तां न्यूनीकृत्य जलं हरितपट्टिकायां प्रवहेत् इति व्यवस्था कृता। गुरुग्रामनगरे जलप्लावनस्य समस्या अस्ति। तत्र सञ्चितं जलं नूंहदिशं नीत्वा यमुनानद्यां प्रवाहयितुं नूतनपरियोजनायाः शुभारम्भः कृतः। अग्रिमवर्षायाः ऋतुपर्यन्तं परिस्थितौ अधिकः सुधारः भविष्यति।

Hindusthan Samachar / Divya Ranjan