इतिहासस्य पृष्ठेषु २८ अगस्तमासः – नेहरू-प्रतिवेदनम्—भारतस्य स्वशासनस्य प्रथमं संवैधानिकरूपरेखाचित्रम्
भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासे २८ अगस्तदिनस्य विशेषं महत्त्वम् अस्ति। १९२८ तमे वर्षे अस्मिन्नेव काले भारतस्य संवैधानिकभविष्यं प्रति एकं महत्त्वपूर्णं दस्तावेजं पुरतः समायातम्, यत् ‘नेहरू-प्रतिवेदनम्’ इति नाम्ना प्रसिद्धम् अस्ति। अस्मिन् प्रत
सांकेतिक।


भारतीयस्वातन्त्र्यसङ्ग्रामस्य इतिहासे २८ अगस्तदिनस्य विशेषं महत्त्वम् अस्ति। १९२८ तमे वर्षे अस्मिन्नेव काले भारतस्य संवैधानिकभविष्यं प्रति एकं महत्त्वपूर्णं दस्तावेजं पुरतः समायातम्, यत् ‘नेहरू-प्रतिवेदनम्’ इति नाम्ना प्रसिद्धम् अस्ति। अस्मिन् प्रतिवेदने प्रथमवारं भारतीयानां पक्षतः देशस्य संवैधानिकव्यवस्थायाः स्वशासनस्य च विस्तृतं रूपरेखाचित्रं प्रस्तुतम्।

नेहरू-प्रतिवेदनं सर्वदलीयसम्मेलनस्य प्रयत्नेन सज्जीकृतम् आसीत्। अस्य नेतृत्वं पण्डितमोतीलालनेहरूः अकरोत्, समितौ च देशस्य अनेकाः प्रमुखाः राजनैतिकनेतारः सम्मिलिताः आसन्।

प्रतिवेदने ब्रिटिशशासनाधीनस्य भारतस्य कृते स्वशासितव्यवस्थायाः प्रस्तावः प्रस्तुतः आसीत्। अस्मिन् नागरिकाधिकाराणां, केन्द्रस्य प्रान्तानां च मध्ये शक्तिविभाजनस्य, उत्तरदायीशासनस्य च विषये महत्त्वपूर्णाः विचारा: प्रदत्ताः आसन्। भारतीयैः निर्मितस्य संवैधानिकनमूनाया: प्रारम्भिकेषु महत्त्वपूर्णेषु प्रयासेषु एतत् प्रतिवेदनम् एकं मन्यते।

महत्त्वपूर्णाः घटनाः

१५२१ — तुर्कीसुल्तानस्य सुलेमानप्रथमस्य सैनिकैः बेलग्रेड्-नगरं विजितम्।१६०० — मुगलैः अहमदनगरं विजितम्।१८४५ — प्रसिद्धस्य ‘साइण्टिफिक् अमरीकन्’ इति पत्रिकायाः प्रथमं संस्करणं प्रकाशितम्।१८५८ — अङ्गुलीमुद्राभिः परिचयस्थापनस्य पद्धतेः प्रवर्तकस्य ब्रिटिशदेशीयस्य विलियमजेम्सहर्शेलस्य जन्म अभवत्।१८९८ — उत्तरी-कैरोलिनाराज्यस्य न्यूबर्न्-नगरस्य औषधविक्रेता कैलेब् ब्रैडमेनः स्वस्य कार्बोनेटेड्-पेयस्य नाम ‘ब्रैड्स् ड्रिङ्क्’ इत्यस्मात् ‘पेप्सी-कोला’ इति परिवर्तितवान्।१९०४ — कलकत्तातः बैरकपुरपर्यन्तं प्रथमायाः कारयानप्रतियोगितायाः आयोजनम् अभवत्।१९१४ — प्रथमविश्वयुद्धस्य प्रारम्भः अभवत्।१९१६ — प्रथमविश्वयुद्धे इटलीदेशः जर्मनीदेशस्य विरुद्धं युद्धस्य घोषणाम् अकरोत्।१९२८ — भारतीय-राष्ट्रीय-अधिवेशने नेहरू-प्रतिवेदनं प्रस्तुतम्।१९५५ — शिकागोनगरस्य कृष्णवर्णीयः किशोरः एम्मेट् टिल् मिसिसिप्पी-राज्ये अपहृतः, यः पश्चात् निर्ममतया हतः। तस्य मृत्युः नागरिकाधिकारान्दोलनस्य गतिं वर्धितवती।१९५६ — इङ्ग्लैण्डदेशेन ऑस्ट्रेलियादेशं पराजित्य ‘एशेज्’ इति क्रिकेट-श्रृङ्खलायाः उपाधिः प्राप्ता।१९६३ — मार्टिनलूथरकिङ्गजूनियर इत्यनेन वाशिङ्गटन-डी.सी. नगरे लिंकन-स्मारकस्य पुरतः ‘आइ हैव अ ड्रीम’ इति प्रसिद्धं भाषणं प्रदत्तम्, यत् अमेरिकीयेतिहासस्य प्रभावशालिषु भाषणेषु अन्यतमं मन्यते।१९७२ — साधारणबीमाव्यवसायस्य राष्ट्रीयकरणविधेयकं पारितम्।१९७५ — अनुजनय्यरः—मरणोपरान्तं सर्वोच्चवीरतापुरस्कारेण ‘महावीरचक्रेण’ सम्मानितः भारतीयसैन्याधिकारी।१९८४ — सोवियतसङ्घेन भूमिगतं परमाणुपरीक्षणं कृतम्।१९८६ — भाग्यश्री साठे शतरञ्जक्रीडायां ग्राण्डमास्टरपदं प्राप्तवती प्रथममहिला अभवत्।१९९० — इराक-देशेन कुवैत्-देशः स्वस्य १९तमः प्रान्तः घोषितः।१९९२ — श्रीलङ्कादेशस्य मुथैया मुरलीधरनेन ऑस्ट्रेलियादेशस्य विरुद्धं स्वस्य टेस्ट्-क्रीडाजीवनस्य प्रारम्भः कृतः।१९९६ — इङ्ग्लैण्डस्य युवराजः चार्ल्सः तस्य पत्नी डायना च औपचारिकरूपेण विवाहविच्छेदं कृतवन्तौ।१९९९ — मेजर् समीर् कोतवालः असमप्रदेशे उग्रवादिनां एकेन गुटेन सह युद्धे वीरगतिं प्राप्तवान्।२००० — ताइवानस्य निर्वाचितेन राष्ट्रपतिना चेन शुई-बियानेन चीनदेशेन सह एकीकरणस्य विकल्पं स्वीकर्तुं सङ्केतः प्रदत्तः।२००० — संयुक्तराष्ट्रसङ्घे सहस्राब्दि-विश्वधार्मिकशिखरसम्मेलनस्य प्रारम्भः अभवत्।२००१ — भारत-पाकिस्तानयोः सीमायां गुटिकाप्रहारः अभवत्, यस्मिन् पाकिस्तानस्य ८ सैनिकाः मृताः।२००६ — विश्वस्य दीर्घजीविनी महिला मारिया एस्तेर डी. कापोविला इत्यस्याः इक्वेडोर-देशे निधनम् अभवत्।२००८ — भारतीय-रिजर्व-धनागारेण १९९९ तथा २००० वर्षयोः सर्वेषां नोट इत्यादिनां प्रचलनात् निवर्तनस्य निर्णयः कृतः।२००८ — प्रधानमन्त्री मनमोहनसिंहेन बिहारराज्ये आपतितां जलौघं राष्ट्रीयापदात्वेन घोषितम्।२००८ — अन्तर्राष्ट्रीयरूपेण प्रसिद्धेन ‘फोर्ब्स्’ इति पत्रिकाप्रकाशनेन उत्तरप्रदेशस्य मुख्यमन्त्री मायावती विश्वस्य १०० प्रभावशालिनीषु महिलासु समावेशिता।२०११ — अन्नाहजारेण देहल्यां १३ दिनानि यावत् कृतस्य अनशनस्य समाप्तिः कृता, यदा भारतीयसंसदा तस्याः याचनानां समर्थनं कृत्वा प्रस्तावः पारितः।२०१३ — गुजरातस्य वडोदरानगरे त्रिमजनपदस्य भवनस्य पतनेन ११ जनानां मृत्युः अभवत्।२०१७ — पी.वी. सिन्धुना बैडमिण्टन-विश्वचैम्पियनशिप्-क्रीडायां रजतपदकं प्राप्तम्।

जन्म

१८५५ — नारायणगुरुः—भारतस्य महान् सन्तः समाजसुधारकश्च।१८९६ — फिराक् गोरखपुरी—प्रसिद्धः उर्दूकविः।१९१३ — आबिदा सुल्तान—भोपालसंस्थानस्य राजकुमारी तथा भारतस्य प्रथमः महिला-विमानचालिका।१९२२ — विजया देवी—भारतीयराजकुमारी।१९२६ — टी. वी. राजेश्वरः—उत्तरप्रदेशस्य, पश्चिमबङ्गस्य, सिक्किमस्य च पूर्वराज्यपालः।१९२८ — एम.जी.के. मेनन्—भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य (इसरो) पूर्वाध्यक्षः।१९२८ — विलायतखानः—भारतस्य प्रसिद्धः सितारवादकः।१९२९ — राजेन्द्रयादवः—प्रसिद्धः आधुनिकसाहित्यकारः।१९३२ — सरस्वतीप्रसादः—प्रसिद्धा लेखिका, सुमित्रानन्दनपन्तस्य मानसपुत्री च।१९४२ — नरेन्द्रचन्द्रदेबबर्मा—भारतीयः राजनैतिकनेता, इण्डिजिनस् पीपुल्स् फ्रण्ट् ऑफ् त्रिपुरायाः अध्यक्षः तथा आकाशवाणी-अगरतलायाः निदेशकश्च।१९५२ — जगदीशसिंहखेहरः—भारतस्य ४४तमः मुख्यन्यायाधीशः।१९६९ — जेसन् प्रीस्ट्ली—कनाडादेशीयः अभिनेता निर्माता च।१९७५ — अनुजनय्यरः—मरणोपरान्तं सर्वोच्चवीरतापुरस्कारेण ‘महावीरचक्रेण’ सम्मानितः भारतीयसैन्याधिकारी।१९९२ — अन्नू रानी—२०२२ तमे वर्षे राष्ट्रमण्डलक्रीडासु भारताय कांस्यपदकं विजितवती क्रीडिका।

निधनम्

२०११ — कपिलदेवद्विवेदी—वेदेषु, वेदाङ्गेषु, संस्कृते, व्याकरणे भाषाविज्ञाने च अप्रतिमः विद्वान्।२००६ — शङ्खो चौधरी—भारतीयः मूर्तिकारः, भारतस्य कलाक्षेत्रे प्रसिद्धः व्यक्तित्वश्च।१६६७ — जयसिंहः—आमेरस्य राजा तथा मुगलसाम्राज्यस्य वरिष्ठः सेनापतिः (मिर्जाराजा)।

महत्त्वपूर्णः अवसरः

राष्ट्रीयनेत्रदानपक्ष:।

Hindusthan Samachar / Divya Ranjan