राज्यपालो मुख्यमंत्री च प्रदेशवासिभ्योऽदत्तां रक्षाबंधनस्य शुभकामनाः
देहरादूनम्, 27 अगस्तमासः (हि.स.)। राज्यपालः लेफ्टिनेन्ट् जनरल् गुरमीतसिंहः (सेवानिवृत्तः) तथा मुख्यमन्त्री पुष्करसिंहधामी च प्रदेशवासिभ्यः रक्षाबन्धनपर्वणः शुभकामनाः प्रदत्तवन्तौ। रक्षाबन्धनपर्वणः पूर्वसन्ध्यायां राज्यपालः स्वसन्देशे अवदत् यत् रक्
उत्तराखंड के राज्यपाल लेफ्टिनेंट जनरल गुरमीत सिंह।


मुख्यमंत्री पुष्कर सिंह धामी कार्यक्रम को संबोधित करते हुए।


देहरादूनम्, 27 अगस्तमासः (हि.स.)। राज्यपालः लेफ्टिनेन्ट् जनरल् गुरमीतसिंहः (सेवानिवृत्तः) तथा मुख्यमन्त्री पुष्करसिंहधामी च प्रदेशवासिभ्यः रक्षाबन्धनपर्वणः शुभकामनाः प्रदत्तवन्तौ।

रक्षाबन्धनपर्वणः पूर्वसन्ध्यायां राज्यपालः स्वसन्देशे अवदत् यत् रक्षाबन्धनं भ्रातृभगिन्योः पवित्रसम्बन्धस्य, अखण्डस्नेहस्य विश्वासस्य च प्रतीकं पर्व अस्ति। एतत् पर्व पारिवारिकसम्बन्धान् सुदृढान् कर्तुं सहैव समाजे प्रेम्णः, सौहार्दस्य परस्परभ्रातृत्वस्य च भावनामपि सुदृढं करोति।

सः अवदत् यत् रक्षाबन्धनं मातृशक्तेः सम्मानस्य स्नेहस्य च पर्व अपि अस्ति। भगिन्यः परिवारे स्नेहस्य, संस्कारस्य संवेदनानां च दृढं आधारभूतं भवन्ति। तासां स्नेहः, आशीर्वादः आत्मीयता च परिवाराय समाजाय च नूतनां शक्तिं दिशां च प्रददाति। राज्यपालः अस्मिन् अवसरे प्रदेशवासिनां सुखस्य, समृद्धेः कल्याणस्य च कामनां कृतवान्।

मुख्यमन्त्रिणा प्रेषिते स्वसन्देशे उक्तं यत् एतत् भ्रातृभगिन्योः अखण्डप्रेम्णः, विश्वासस्य, स्नेहस्य, समर्पणस्य सुरक्षासङ्कल्पस्य च पावनं पर्व अस्ति। एतत् पर्व समृद्धाभिः सांस्कृतिकपरम्पराभिः सह नारीसम्मानस्य सामाजिकसौहार्दस्य च भावनामपि सुदृढीकरोति।

धामी अवदत् यत् रक्षाबन्धनं महिलासु आदरस्य सुरक्षाभावनायाः च सुदृढीकरणेन सह तासां सम्मानसम्बद्धं पर्व अपि अस्ति। महिलानां सशक्तीकरणं विना समृद्धस्य उत्तराखण्डस्य कल्पना पूर्णा भवितुं न शक्नोति। सः प्रदेशवासिभ्यः महिलानां सशक्तीकरणाय तासां प्रगत्यै च आदर्शसमाजस्य निर्माणे सहयोगं कर्तुम् आह्वानं कृतवान्।

सः अवदत् यत् मातृशक्तेः सम्मानः सशक्तीकरणं च राज्यसर्वकारस्य सर्वोच्चप्राथमिकतासु अन्तर्भवति। प्रधानमन्त्री नरेन्द्रमोदिनः मार्गदर्शने महिलानां सम्मानस्य, सुरक्षायाः आत्मनिर्भरतायाश्च कृते अनेकाः महत्त्वपूर्णाः पहलाः कृताः सन्ति। उत्तराखण्डे महिलाभ्यः स्वरो‍जगारस्य, उद्यमितायाः रोजगारस्य च अवसरान् प्रदाय शासकीयसेवासु त्रिंशत्प्रतिशतं क्षैतिजआरक्षणं प्रदत्तम् अस्ति। प्रदेशस्य लक्षशः महिलाः स्वयं सहायता समूहैः सह सम्बद्धाः भूत्वा आत्मनिर्भरतायाः दिशि अग्रे वर्धन्ते।

मुख्यमन्त्री अवदत् यत् रक्षाबन्धनस्य अवसरे अष्टाविंशतितमे नवविंशतितमे च अगस्तमासस्य दिने प्रदेशस्य महिलाभ्यः उत्तराखण्डपरिवहननिगमस्य बसयानेषु निःशुल्कयात्रायाः सुविधा प्रदत्ता अस्ति। सः प्रदेशवासिभ्यः महिलानां सम्मानस्य, सुरक्षायाः सशक्तीकरणस्य च कृते मिलित्वा कार्यं कर्तुम् आह्वानं कृतवान्।

-----------------

Hindusthan Samachar / Dheeraj Maithani