Enter your Email Address to subscribe to our newsletters

खूंटी, 27 अगस्तमासः (हि.स.)।
झारखण्डप्रशासनिकसेवायाः अधिकारी गढवायाः उपनिर्वाचनपदाधिकारी च कुमुदकुमारझा राञ्चीनगरे आयोज्यमाने द्विदिवसीये अन्तर्राष्ट्रीयसम्मेलने स्वस्य शोधपत्रं प्रस्तुतं करिष्यन्ति। सितम्बरमासस्य द्वितीये तृतीये च दिनाङ्के आयोज्यमानस्य अस्य सम्मेलनस्य आयोजनं भारतनिर्वाचनायोगस्य निर्देशानुसारं मुख्यनिर्वाचनपदाधिकारिणा (झारखण्ड) क्रियते। अस्मिन् सम्मेलने देश-विदेशेभ्यः निर्वाचनविशेषज्ञाः, विद्वांसः, शोधकर्तारः पत्रकाराश्च भागं ग्रहीष्यन्ति।
अस्मिन् अन्तर्राष्ट्रीयमञ्चे शोधपत्रप्रस्तुत्यर्थं मुख्यनिर्वाचनपदाधिकारिणा, निर्वाचनायोगेन, झारखण्डेन च औपचारिकपत्रं प्रेषयित्वा कुमुदकुमारझा आमन्त्रिताः सन्ति। कुमुदकुमारझस्य शोधपत्रस्य मुख्यविषयः “मतदातृपञ्जीकरणं सरलपञ्जीकरणविधिश्च—लोकतान्त्रिकव्यवस्थायां सहभागितया युवानां सशक्तीकरणम्” इति अस्ति।
स्वस्य शोधपत्रस्य अनुमोदनेन प्रसन्नतां व्यक्तं कुर्वन् झा उक्तवान् यत् युवानां लोकतान्त्रिकसहभागितां वर्धयितुं दिशि एषः महत्त्वपूर्णः अवसरः अस्ति।
उल्लेखनीयं यत् कुमुदकुमारझा भारतनिर्वाचनायोगस्य राष्ट्रीयस्तरीयमुख्यप्रशिक्षकः इत्यस्य रूपेण अपि सेवां प्रददति। अस्य भूमिकायाः अन्तर्गतं सः आन्ध्रप्रदेशे, महाराष्ट्रे, पश्चिमबङ्गाले, उत्तरप्रदेशे, हरियाणायां, दिल्ल्यां, झारखण्डे च विभिन्नेषु राज्येषु निर्वाचनाधिकारिभ्यः, निर्वाचनपञ्जीकरणाधिकारिभ्यः (आर.ओ.), सहायकनिर्वाचनपञ्जीकरणाधिकारिभ्यश्च निर्वाचनप्रक्रियाणां प्रशिक्षणं प्रदत्तवान् अस्ति। पूर्वमपि सः निर्वाचनसम्बद्धेषु अन्तर्राष्ट्रीयसम्मेलनेषु भागं गृहीतवान् अस्ति।
संक्षिप्तपरिचयः
मूलनिवासः — कोनबीरः, बसियाप्रखण्डः, गुमलाजनपदम्।
प्रारम्भिकशिक्षा — ठेठाईटाङ्गरे, सिमडेगायां च।
पूर्वप्रशासनिकानुभवः — तोरपायां सोनाहातुयां च प्रखण्डविकासाधिकारी (बी.डी.ओ.), पेयजलस्वच्छताविभागे सचिवः।
वर्तमानपदम् — उपनिर्वाचनपदाधिकारी, गढवाजनपदम्।
---------------
Hindusthan Samachar / Dheeraj Maithani