Enter your Email Address to subscribe to our newsletters

लखनऊ, 27 अगस्तमासः (हि.स.)।भारतीयजनतादलस्य वरिष्ठनेता उत्तरप्रदेशस्य उपमुख्यमन्त्री च केशवप्रसादमौर्यः उक्तवान् यत् समाजवादीदलम् उत्तरप्रदेशस्य जनताः २०२७ तमे वर्षे पुनः निराकुर्युः।
उपमुख्यमन्त्रिणा गुरुवासरे स्वस्य सामाजिकमाध्यमसन्देशे लिखितं यत् समाजवादीपार्टीप्रमुखः अखिलेशयादवः, राष्ट्रियजनतादलस्य लालटेनधारी तेजस्वीयादवः, तृणमूलकाङ्ग्रेसस्य दीदी ममताबनर्जी, आम् आदमी पार्टी इत्यस्य नेता अरविन्दकेजरीवालश्च—एतेषां सर्वेषां मुखानि भिन्नानि सन्ति, किन्तु एतेषां अतिशयोक्तिपूर्णघोषणानां शून्यराजनीतेश्च वास्तविकस्वरूपम् एकमेव अस्ति। बिहारराज्ये जनैः राष्ट्रियजनतादलः, पश्चिमबङ्गाले तृणमूलकाङ्ग्रेसः, दिल्ल्यां च आम् आदमी पार्टी निराकृता। अधुना समाजवादीपार्टीदलस्य क्रमः अस्ति, यां २०२७ तमे वर्षे उत्तरप्रदेशस्य जनताः पुनः निराकुर्युः।
उत्तरप्रदेशस्य जनताः २०१२ तः २०१७ तमवर्षपर्यन्तं समाजवादीपार्टीस्य शासनकाले व्याप्तां गुंडागर्दीं, अपराधं, माफियातत्त्वानां दङ्गाकारिणां भ्रष्टाचारिणां च संरक्षणाधारितां राजनीतिं न केवलं दृष्टवन्तः, अपितु तस्याः दुष्परिणामान् बहुधा सोढवन्तः अपि।
इदं सर्वथा स्पष्टम् अस्ति यत् समाजवादीपार्टीप्रमुखस्य अखिलेशयादवस्य कृते २०२७ तः २०४७ तमवर्षपर्यन्तं उत्तरप्रदेशस्य सत्ता प्राप्तुं न शक्यते। तथा च तस्य दिल्लीनिवासी संरक्षकस्य काङ्ग्रेसस्य युवनेता राहुलगान्धिनः कृते २०४९ तमवर्षपर्यन्तं देशस्य सत्ता प्राप्तुं न शक्यते। उभावपि भविष्यस्य नाम्ना मिथ्यावचनानि जनानां पुरतः प्रस्तौते।
केशवप्रसादमौर्यः उक्तवान् यत् समाजवादीपार्टीस्य पीडीए इति कथितस्य ‘परिवारविकाससंस्था’ इत्यस्य वास्तविकतां उत्तरप्रदेशस्य महिलाः अधिकं सम्यक् अवगच्छन्ति। अतः ताः समाजवादीदलस्य कूटनीतिं, प्रपञ्चं, प्रलोभनं च न स्वीकुर्युः।
Hindusthan Samachar / Dheeraj Maithani