नेपालदेशे २८८ भारतीयाः श्रमिकाः पर्यटकाः च सम्पर्कात् बहिः
नवदिल्ली, २७ अगस्तमासः (हि.स.)। नेपालदेशस्य तिब्बतसीमावर्तिनि रसुवा-जनपदे बुधवासरे उत्पन्नायाः भीषणायाः आपदायाः कारणेन तस्मिन् क्षेत्रे विद्यमानाः न्यूनातिन्यूनं २८८ भारतीय-नागरिकाः सम्पर्कात् बहिः सन्ति। अपरतः कैलास-मानसरोवरयात्रायै गताः चीन-सीमाय
MEA Bangladesh HC Summon


नवदिल्ली, २७ अगस्तमासः (हि.स.)। नेपालदेशस्य तिब्बतसीमावर्तिनि रसुवा-जनपदे बुधवासरे उत्पन्नायाः भीषणायाः आपदायाः कारणेन तस्मिन् क्षेत्रे विद्यमानाः न्यूनातिन्यूनं २८८ भारतीय-नागरिकाः सम्पर्कात् बहिः सन्ति। अपरतः कैलास-मानसरोवरयात्रायै गताः चीन-सीमायाः अन्तः प्रायः २०० भारतीयाः यात्रिणः अवरुद्धाः सन्ति। तेषां सुरक्षित-निष्कासनाय काठमाण्डू-बीजिङ्गयोः स्थिते भारतीयदूतावासे सक्रियतया कार्यं कुरुतः।

विदेशमन्त्रालयस्य प्रवक्ता रणधीर-जयसवालः नेपालदेशस्य आपद्राहत्य-कार्यस्य उद्धारकार्यस्य च विषये आयोजिते विशेषसंवाददातृसम्मेलने एतां सूचनां दत्तवान्। सम्पर्कात् बहिः स्थितानां जनानां विवरणं ददन् प्रवक्ता अवदत् यत् पञ्च बृहद्गणाः सन्ति, येषां सह सम्पर्कः स्थापयितुं न शक्यते। एतेषु गणेषु समग्रतः २८८ भारतीयाः सन्ति। एतेषु त्रिशूली-१ विद्युत्परियोजनायां कार्यरताः ७३ भारतीयाः अपि सन्ति। तदतिरिक्तं देशस्य विभिन्नेभ्यः राज्येभ्यः समूहैः आगताः पर्यटकाः अपि तेषु सम्मिलिताः सन्ति। अपरतः गुरुवासरे अपराह्णे एकवादनपर्यन्तं २१ भारतीय-नागरिकाणां सुरक्षितनिष्कासनं कर्तुं सफलता प्राप्ता।

विदेशमन्त्रालयस्य प्रवक्त्रा अद्य अस्मिन् विषये विशेषवार्तां कृत्वा सूचितम्। तेन उक्तं यत् वर्तमानसमये भारतीयानां पञ्च बृहद्गणानां विषये सम्पर्कः न स्थापितः। एतेषु त्रिशूली-१ विद्युत्परियोजनायां कार्यरताः ७३ भारतीयाः अपि सन्ति। प्रवक्तुः कथनमस्ति यत् काठमाण्डूस्थितः भारतीयदूतावासः एतेषां जनानां विषये अधिकविवरणं प्राप्तुं परियोजनाप्रमुखेन सह सम्पर्के अस्ति। क्षेत्रे सम्पर्क-सञ्चारव्यवस्थाः पूर्णतया बाधिताः सन्ति। अतः भूमिस्तरे जनैः सह सम्पर्कस्थापनं कठिनं जातम्।

सः अवदत्— “यथा भवन्तः जानन्ति, तस्मिन् क्षेत्रे सम्पर्कसञ्चारव्यवस्थाः पूर्णतया बाधिताः सन्ति, अतः भूमिस्तरे जनैः सह सम्पर्कः कठिनः जातः। तमिलनाडुराज्यातः ३७ तथा ४९ नागरिकानां द्वौ पृथक् समूहौ ‘सम्राट्’ तथा ‘फ्लाइ एवरेस्ट ट्रेवल्स’ इत्येतयोः पृथक् यात्रासंस्थयोः माध्यमेन कैलासमान-सरोवरयात्रायै गतवन्तौ। पश्चिमबङ्गालस्य ३२ भारतीयनागरिकाणां समूहः ‘सम्राट् ट्रेवल्स’ इत्यस्य साहाय्येन रसुवाजनपदस्य तिमुरे इति स्थाने, यत्र एषः दुर्घटनाप्रसङ्गः अभवत्, स्थितः आसीत्। तदतिरिक्तं विभिन्नराज्येभ्यः ६१ भारतीयनागरिकाणां समूहः ‘रिचा टूर्स’ इत्यस्य माध्यमेन यात्रां कुर्वन् आसीत्। एवं केरलस्य ३३ भारतीयनागरिकाणां समूहः अपि विलुप्तः अस्ति। एते मुख्यतः पञ्च बृहद्गणाः सन्ति, येषु समग्रतः प्रायः २८८ जनाः सन्ति, येषां सह सम्पर्कः स्थापयितुं न शक्यते।”

प्रवक्ता अवदत् - “वयं नेपाली-अधिकारिणां माध्यमेन स्वजनान् प्राप्तुं सर्वसम्भवं प्रयत्नं कुर्मः। अस्मिन् विषये अस्मभ्यं अधिकाः सूचनाः प्राप्स्यन्ति तथा वयं यथाशीघ्रं भवद्भ्यः सूचनां दातुं प्रयतिष्यामहे।”

प्रवक्ता अवदत् यत् गुरुवासरे अपराह्णे एकवादनपर्यन्तं २१ भारतीयनागरिकाणां सुरक्षितनिष्कासनं कर्तुं सफलता प्राप्ता। एषः २१ जनानां समूहः तमिलनाडुराज्यस्य अस्ति। काठमाण्डूस्थितेन भारतीयदूता-वासेन राजदूतेन च अस्य समूहस्य जनैः सह वार्ता कृता तथा तेभ्यः सर्वसम्भवसहाय्यस्य आश्वासनं दत्तम्। ते काठमाण्डूं प्रति आगच्छन्ति तथा ततः शीघ्रमेव तेषां स्वदेशप्रतिनिवर्तनस्य व्यवस्था करिष्यते। तेषां परिजनानां आश्वासनाय विदेशमन्त्रालयेन तेषां सूची प्रकाशितास्ति।

सः अवदत् यत् तदतिरिक्तं कैलास-मानसरोवरयात्रायै गताः प्रायः २०० भारतीययात्रिणः अपि अवरुद्धाः सन्ति। एतेषु प्रायः ९५ यात्रिणः कैलासपर्वतस्य आधारशिविरे दार्चेने सन्ति, ये नेपालदेशे हिल्सा-मार्गेण प्रत्यागन्तुं प्रयतन्ते। प्रायः २० जनाः जनपदाङ्गे जुटुरपुके च तथा प्रायः ६०-७० जनाः सागायां अवरुद्धाः सन्ति। एतेषां सुरक्षितप्रतिनिवर्तनाय बीजिङ्गे काठमाण्डौ च स्थिते भारतीयदूतावासे चीनस्य नेपालस्य च सर्वकाराभ्यां सह मिलित्वा प्रयत्नं कुरुतः।राहतकार्याणां विवरणं ददन् प्रवक्ता अवदत् यत् भारतात् द्वाभ्यां विमानाभ्यां ४७.५ टनपरिमितं राहतसामग्रीम् उद्धारसामग्रीं च प्रेषितम् अस्ति। बुधवासरे रात्रौ सार्धाष्ट-वादने भारतीयवायुसैन्यस्य सी-१३०-जे विमानं १० टनपरिमितां सामग्रीं नीत्वा गतवत् तथा गुरुवासरे दिवा सी-१७ हरक्यूलिस विमानं ३७.५ टनपरिमितां सामग्रीं नीत्वा गतवत्। तदतिरिक्तं दुर्घटनास्थले नदीं पारं कर्तुं बेली-सेतुम् उपलब्धं कर्तुं सज्जता क्रियते। सः अवदत् यत् नेपालसर्वकारस्य अनुरोधानुसारं भारतः अग्रे अपि अधिक-सहाय्यं प्रेषयितुं सज्जः अस्ति।

सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी ह्यः नेपालस्य प्रधानमन्त्रिणा बालेन्द्रशाहेन सह वार्तां कृतवान्। भारतं नेपालस्य जनैः सह ऐक्यभावेन स्थितम् अस्ति तथा भारतस्य पक्षतः सर्वसम्भवमानवीय-सहाय्यस्य प्रस्तावः अपि कृतः अस्ति।

Hindusthan Samachar / Divya Ranjan