Enter your Email Address to subscribe to our newsletters


- मुख्यमन्त्रिणा डॉ. यादवेन ओङ्कारेश्वरस्थिते एकात्मधाम्नि पञ्चा-यतमन्दिरस्य शिलान्यासः कृतः- पूज्यसन्तानां करकमलैः मन्दिर-निर्माणस्य पावनः शुभारम्भः
भोपालम्, २७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अवदत् यत् सिंहस्थ-२०२८ इत्यस्य पूर्वं भव्यायाः एकात्मयात्रायाः आयोजनं करिष्यते, यस्याः समापनं सिंहस्थस्य अवधौ भविष्यति। एषा यात्रा देशं विश्वं च प्रति भारतीयज्ञानपरम्परायाः, सन्त-परम्परायाः, एकात्मदर्शनस्य च सन्देशं प्रेषयिष्यति। सः अवदत् यत् ओङ्कारेश्वरम् उज्जयिनी च उभे अपि आन्तरिकचेतनायाः केन्द्रे भवतः। एते उभे स्थले केवलं मध्यप्रदेशस्य कृते न, अपितु सम्पूर्णभारतस्य विश्वस्य च कृते अनुपम-आध्यात्मिककेन्द्ररूपेण विकसिते भविष्यतः।
मुख्यमन्त्री गुरुवासरे प्रातः खण्डवाजनपदे पवित्रतीर्थनगरे ओङ्कारेश्वरे स्थिते एकात्मधाम्नि भव्यस्य पञ्चायतमन्दिरस्य शिलान्यासं कृत्वा उक्तवान्। मुख्यमन्त्री भारतस्य दिव्यसंन्यासपरम्परायाः प्रति-निधिभिः, षड्दर्शनसन्तमण्डलस्य पूज्य-सन्तैः विशिष्टातिथिभिश्च सह पञ्च-चत्वारिंशत् पवित्रशिलानां पूजनं कृत्वा मन्दिरनिर्माणस्य शुभारम्भं कृतवान्। आन्ध्रप्रदेशस्य श्रीवेङ्कटेश्वरवेद-विज्ञान-पीठम् धर्मगिरिस्थस्य प्राचार्येण के.एस.एस. अवधानी-महोदयेन, दक्षिणा-म्नाय-श्रीशारदापीठम् कर्णाटकेन, श्रीश्री-गुरुकुलस्य आचार्यैश्च वैदिकानुष्ठानं सम्पन्नं कारितम्।
डॉ. मोहनयादवः अवदत् यत् एकात्मधाम केवलं धार्मिकं स्थलम् न, अपितु भारतस्य सनातनज्ञानपरम्परायाः, आध्यात्मिक-चेतनायाः, सांस्कृतिकैकात्मतायाश्च केन्द्रं भविष्यति। जगद्गुरुणा आदिशङ्कराचार्येण विविधासु उपासनापद्धतिषु समन्वयं स्थापयितुं पञ्चायतनपूजनस्य परम्परा पुनः प्रतिष्ठापिता आसीत्। पञ्चायत-मन्दिरम् एतस्याः महतः परम्परायाः अग्रे विस्तारस्य माध्यमं भविष्यति।
मुख्यमन्त्रिणा उक्तं यत् वयं भगवन्तं प्रत्यक्षं न दृष्टवन्तः, किन्तु सन्तानाम् आशीर्वादेन परमात्मनः नाम तस्य अनुभूतिश्च अस्माकं जीवने प्रकाशते। पूज्यसन्तानाम् आशीर्वादेन ओङ्कारेश्वरे तादृशं दिव्यधाम आकारं प्राप्नोति, यत् भाविवंशानां कृते भारतीयसंस्कृतेः, आध्यात्मिकतायाः चरित्रनिर्माणस्य च प्रेरणां प्रदास्यति।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् यशस्विनः प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे विश्वं भारतस्य वैभवं शक्तिं च परिचिनोति। राज्यसर्वकारः प्रधानमन्त्रिणः मार्गदर्शनेन प्रदेशस्य धार्मिकानां आध्यात्मिकानां च स्थलानां विकासाय तानि विश्वस्तरीय-सुविधाभिः संयोजयितुं च पूर्णतया प्रतिबद्धः अस्ति। पूर्वमुख्यमन्त्रिणा शिवराजसिंहचौहानेन प्रारब्धम् एकात्म-धामस्य मन्दिरनिर्माणस्य च कार्यं अस्माकं सर्वकारः अग्रे वर्धयति। अद्य समाजस्य अन्तः विविधाः अन्तर्विरोधाः आसुरी-शक्तयश्च विद्यमानाः सन्ति, याः विविधप्रकारेण अस्माकं मार्गे विघ्नान् जनयन्ति। आदिगुरोः शङ्कराचार्यस्य मातुः नर्मदायाश्च कृपया एताः सर्वाः शक्तयः पराजिताः भविष्यन्ति। सन्तानाम् आशीर्वादेन मनुष्यस्य प्रत्येकं सङ्कल्पः पूर्णतां प्राप्नोति। मुख्यमन्त्री डॉ. यादवः पञ्चायतनमन्दिरस्य शिलान्यासकार्यक्रमे स्वपत्न्या श्रीमतीसीमायादवः इत्यनया सह सम्मिलितः अभवत्।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् मान्धातापर्वते विकसित्यमानं एकात्मधाम् अग्रिमकाले अत्यन्तम् अलौकिकं दिव्यं च दृश्यं प्रदर्शयिष्यति। वयं सर्वे परमात्मनः लीलायाः साक्षिणः स्मः। सः अवदत् यत् वयं अस्याः यात्रायाः पथिकाः स्मः तथा अस्माकं सौभाग्यम् अस्ति यत् अस्मभ्यं तादृशस्य दिव्यधाम्नः निर्माणे स्वभूमिकां निर्वोढुम् अवसरः प्राप्यते। एतत् स्थानम् आन्तरिकचेतनायाः जागरणस्य आत्मिक-शान्तेश्च महत्त्वपूर्णं केन्द्रं भविष्यति। सः अवदत् यत् सन्तानाम् आशीर्वादेन रक्षाबन्धनस्य पावने अवसरे एतत् शुभकार्यं सम्पद्यते। एकात्मधाम्नि निर्मीयमाणाः आध्यात्मिकसंरचनाः समाजे समरसतायाः, सद्भावस्य, संस्कारस्य, चरित्रनिर्माणस्य च भावनां सुदृढां करिष्यन्ति।
मुख्यमन्त्री डॉ. यादवः अवदत् यत् पञ्चायतनमन्दिरं धार्मिकश्रद्धया सह भारतीयप्राचीनवास्तुकलायाः मूर्तिकला-याश्च पुनरुत्थानस्य महत्त्वपूर्णम् उदाहरणमपि भविष्यति। पञ्चायतनो-पासनायाः मूलसन्देशः एषः एव यत् विविधेषु देवस्वरूपेषु तस्यैव एकस्य परमब्रह्मणः उपासना क्रियते। एषा एव भारतीयसंस्कृतेः एकात्मदृष्टिः अस्ति। सः अवदत् यत् ओङ्कारेश्वरस्य भूमौ सन्तानाम् आशीर्वादेन निर्मितमिदं दिव्यधाम् आगामिकाले देशविदेशयोः श्रद्धालूनां जिज्ञासूनां च आध्यात्मिक-प्रेरणायाः केन्द्रं भविष्यति।
प्राचीनपञ्चायतनशैल्याः आधारेण मन्दिरस्य निर्माणं क्रियते। मन्दिरस्य मध्ये भगवतः शिवस्य मुख्यदेवालयः भविष्यति। चतुर्षु कोणेषु भगवान् विष्णुः, भगवान् सूर्यः, भगवान् गणेशः, भगवती शक्तिश्च इत्येतेषां उपदेवालयाः भविष्यन्ति। मुख्यदेवालयस्य शिखरं ‘सोमतिलक’-शैल्यां भविष्यति तथा गर्भगृहं सर्वतोभद्रशैल्या निर्मीयते। मन्दिरे चतुर्षु दिक्षु प्रवेशस्य व्यवस्था भविष्यति। मन्दिरपरिसरे शतं कलात्मकनक्काशी-समन्विताः स्तम्भाः अष्ट लघुसंवर्णाश्च स्थापिताः भविष्यन्ति। मुख्यमण्डपे २६ पादपरिमितव्यासयुक्तः विशालः कलात्मकः गुम्बदः भविष्यति। मन्दिरं षोडशपादोन्नते आधारभूताधिष्ठाने ‘जगति’ इत्यस्मिन् निर्मास्यते। सम्पूर्णं मन्दिरं १२१ कलशैः सुशोभितं भविष्यति तथा निर्माणे प्रायः अष्टाशीति-सहस्रघनपादपरिमितं नक्काशीसमन्वितं रक्तवर्णीयं बलुआश्मः उपयुज्यते।
पञ्चायतनमन्दिरस्य निर्माणं पारम्परिक-नागरशैल्या क्रियते। मन्दिरस्य बाह्यवास्तु-विन्यासः भद्र-कर्ण-प्रतिरथ-देवकोष्ठ-अलङ्कृतपट्टिकानां संयोजनेन सुशोभितः भविष्यति। भव्यानि तोरणद्वाराणि मन्दिरस्य स्थापत्यसौन्दर्यम् अधिकं वर्धयिष्यन्ति। अस्मिन् अवसरे बहवः सन्तः, स्थानीयजनप्रतिनिधयः, प्रशासनिका-धिकारिणः, श्रद्धालवश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan