मध्यप्रदेशस्य मुख्यमन्त्री अद्य जबलपुरे ‘माय भारत युवा कनेक्ट-खेलो इण्डिया संवाद’कार्यक्रमे सम्मिलितः भविष्यति
भोपालम्, २७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य गुरुवासरे जबलपुरे शासकीय-महाकौशल-कला-वाणिज्य-महाविद्यालये आयोजिते भव्ये ‘माय भारत युवा कनेक्ट-खेलो इण्डिया संवाद’कार्यक्रमे सम्मिलितः भविष्यति। जनसम्पर्काधिकारी माथनसिंह
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, २७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य गुरुवासरे जबलपुरे शासकीय-महाकौशल-कला-वाणिज्य-महाविद्यालये आयोजिते भव्ये ‘माय भारत युवा कनेक्ट-खेलो इण्डिया संवाद’कार्यक्रमे सम्मिलितः भविष्यति।

जनसम्पर्काधिकारी माथनसिंह उइके इत्यनेन उक्तं यत् राष्ट्रीयक्रीडादिवसस्य अवसरे आयोजितस्य अस्य कार्यक्रमस्य अन्तर्गतं प्रधानमन्त्री नरेन्द्रमोदी देशस्य प्रायः १६०० संस्थाभिः सम्बद्धैः ८ लक्षाधिकैः युवभिः सह दृक्-श्राव्यमाध्यमेन प्रत्यक्षं संवादं करिष्यति। शासकीय-महाकौशल-महाविद्यालये आयोजिते अस्मिन् समारोहं उपस्थिताः युवानः प्रधानमन्त्रिणः अस्य दृक्-श्राव्यसम्बोधनं प्रत्यक्षं श्रोतुं शक्नुवन्ति।

मुख्यमन्त्री डॉ. मोहनयादवः प्रातः १०:४५ वादने इन्दौरतः वायुयानेन डुमना-विमानपत्तनम् आगमिष्यति। मुख्यमन्त्री प्रातः ११ वादने शासकीय-महाकौशल-कला-वाणिज्य-महाविद्यालये आयोजिते कार्यक्रमे भागं ग्रहीष्यति तथा प्रातः ११:५५ वादने डुमना-विमानपत्तने रक्षामन्त्रिण: राजनाथसिंहस्य स्वागतं करिष्यति।

जनसम्पर्काधिकारिणः अनुसारम् अस्य आयोजनस्य मुख्योद्देश्यं युवभ्यः क्रीडाक्षेत्रे अभवद्भिः विकासैः, क्रीडाधोसंरचनया भारतस्य च उद्भासमानेन क्रीडापरितन्त्रेण अवगतिं प्रदातुम् अस्ति, येन देशस्य युवशक्तेः क्रीडाक्षेत्रे नूतना दिशा प्रेरणा च प्राप्येताम्।

निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री डॉ. मोहनयादवः प्रातः १०:४५ वादने इन्दौरतः वायुयानेन डुमना-विमानपत्तनम् आगमिष्यति। मुख्यमन्त्री प्रातः ११ वादने शासकीय-महाकौशल-कला-वाणिज्य-महाविद्यालयस्य कार्यक्रमे भागं ग्रहीष्यति तथा प्रातः ११:५५ वादने डुमना-विमानपत्तने रक्षामन्त्रिण: राजनाथसिंहस्य स्वागतं करिष्यति।

मुख्यमन्त्री डॉ. यादवः रक्षामन्त्रिणा सह मध्याह्ने १२:१५ वादने व्हीकल फैक्टरी इत्यत्र आयोजिते कार्यक्रमे सम्मिलितः भविष्यति। ततः सः साउथसिविललाइन्स इत्यत्र आयोजिते स्थानीयकार्यक्रमे भागं ग्रहीष्यति। मुख्यमन्त्री डॉ. यादवः मध्याह्ने ३:१५ वादने डुमना-विमानपत्तनं प्राप्स्यति तथा रक्षामन्त्रिणे विदायं दत्त्वा मध्याह्ने ३:३० वादने वायुयानेन भोपालं प्रति प्रस्थास्यति।

Hindusthan Samachar / Divya Ranjan