Enter your Email Address to subscribe to our newsletters

— पूज्यसन्तानां करकमलैः मन्दिर-निर्माणस्य पावनः शुभारम्भः
भोपालम्, २७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य पवित्रनगरे ओंकारेश्वरे स्थिते ‘एकात्मधाम्नि’ भव्यस्य ‘पञ्चायतन-मन्दिरस्य’ अद्य शिलान्यासः भविष्यति। मुख्यमन्त्री डॉ. मोहनयादवः भारतस्य दिव्यसंन्यासपरम्परायाः प्रतिनिधिभिः, षड्दर्शनसन्तमण्डलस्य पूज्यसन्तैः विशिष्टातिथिभिश्च सह ४५ पवित्रशिलानां पूजनं कृत्वा मन्दिरनिर्माणस्य शुभारम्भं करिष्यति।
अस्मिन् अवसरे श्रीवेङ्कटेश्वरवेद-विज्ञानपीठम्, धर्मगिरिः, आन्ध्रप्रदेशस्य प्राचार्यः के.एस्.एस्. अवधानी, दक्षिणाम्नायश्रीशारदापीठम्, कर्नाटकम्, श्रीश्रीगुरुकुलस्य आचार्यैश्च वैदिकानु-ष्ठानेन पञ्चायतनमन्दिरस्य शिला-पूजनस्य शुभानुष्ठानं सम्पन्नं करिष्यन्ति।
पञ्चायतनपूजनम् : विविधोपासना-परम्पराणाम् अद्भुतः समन्वयः
जगद्गुरुः श्रीमदादिशङ्कराचार्यः विविधासू-पासनापद्धतिषु समन्वयं स्थापयितुं ‘पञ्चायतनपूजनस्य’ पुनरुद्धारम् अकरोत्। भगवत्पादस्य अस्य युगान्तकारी योगदानस्य संरक्षणस्य उद्देशेन ‘एकात्मधाम्नि’ एतस्य भव्यस्य मन्दिरस्य निर्माणं क्रियमाणम् अस्ति। सनातन-परम्परायां पञ्चदेवपूजायाः मूलदर्शनं विविधस्वरूपैः एकस्यैव ‘परमब्रह्मणः’ आनुष्ठानिकीम् उपासनां कर्तुम् अस्ति।
पञ्चायतनमन्दिरस्य केन्द्रे भविष्यति भगवान् शिवस्य देवालयः
प्राचीनपञ्चायतनशैल्याः आधारेण निर्मीयमाणस्य अस्य मन्दिरस्य केन्द्रे भगवत: शिवस्य मुख्यदेवालयः भविष्यति। चतुर्षु कोणेषु उपदेवालयाः स्थिताः भविष्यन्ति। ईशानकोणे भगवान् विष्णुः, आग्नेयकोणे भगवान् सूर्यः, नैर्ऋत्यकोणे भगवान् गणेशः तथा वायव्यकोणे भगवती शक्तिः प्रतिष्ठिता भविष्यति।
मुख्यदेवालयस्य शिखरं ‘सोम-तिलक’शैल्या निर्मितं भविष्यति। मन्दिरस्य गर्भगृहं ‘सर्वतोभद्र’शैल्या निर्मितम् अस्ति, यस्मिन् चतुर्षु दिक्षु प्रवेशद्वाराणि भविष्यन्ति। परिसरे १०० कलात्मकाः नक्काशीयुक्ताः स्तम्भाः तथा ८ लघु ‘संवर्णाः’ (सामरणाः) स्थापयिष्यन्ते। भव्यानि तोरणद्वाराणि स्थापत्यस्य सौन्दर्यं द्विगुणीकुर्युः।
पञ्चायतनमन्दिरस्य मुख्यमण्डपे २६ पादपरिमितव्यासयुक्तः विशालः कलात्मकः गुम्बदः भविष्यति, यः मन्दिरस्य भव्यतायाः मुख्याकर्षणं भविष्यति। सम्पूर्णं मन्दिरं १६ पादोन्नते आधारभूते अधिष्ठाने अर्थात् ‘जगत्यां’ प्रतिष्ठितम् अस्ति। अस्य बाह्य-ऊर्ध्वाधरवास्तुविन्यासः अर्थात् ‘मण्डोवरः’ भद्र-कर्ण-प्रतिरथ-देवकोष्ठ-अलङ्कृतपट्टिकानां क्रमबद्धसंयोजनेन सुशोभितः अस्ति।
सम्पूर्णं मन्दिरं १२१ कलशैः सुशोभितं भविष्यति। अस्य निर्माणे ८०,००० घनपादपरिमितस्य नक्काशीयुक्तस्य पाटलवर्णस्य बलुआपाषाणस्य उपयोगः क्रियमाणः अस्ति। पञ्चायतनमन्दिरं न केवलं धार्मिकश्रद्धायाः केन्द्रं भविष्यति, अपि तु भारतीयप्राचीनवास्तुकलायाः मूर्तिकलायाश्च पुनरुत्थानस्य उत्कृष्टम् उदाहरणम् अपि प्रस्तुतं करिष्यति। इदं मन्दिरं पारम्परिकनागरशैल्या निर्मीय-माणं भवति, यत् भारतीयस्थापत्य-कलायाः सांस्कृतिकगरिमायाश्च जीवन्तं प्रतीकं भविष्यति।
पञ्चायतनोपासनादर्शनम्
भारतीयज्ञानपरम्परानुसारम् ईश्वरः जगतः स्रष्टा अस्ति तथा स्वयं चराचरजगत्स्वरूपेण अभिव्यज्यते। उपनिषत्सु वर्णितानां सृष्टेः विविधरूपाणाम् उपासनाविधानं स्थापत्यशास्त्रे मन्दिरस्य आकारेण, शिखरेण विग्रहनिर्माणेन च परिभाषितम् अस्ति।
आदिशङ्कराचार्येण शैव-वैष्णव-शाक्त-सौर-गाणपत्यसम्प्रदायानां मध्ये समरसतां स्थापयितुं पञ्चायतनपद्धतिः पुनः प्रतिष्ठापिता। इदं दर्शनं शिक्षयति यत् प्रत्येकं देवता एकस्याः एव अनन्तसत्तायाः विविधं स्वरूपम् अस्ति। यथा सुवर्णेन निर्मितानाम् आभूषणानां मूलतत्त्वं सुवर्णमेव भवति, तथैव पञ्चदेवाः एकस्य निराकारब्रह्मणः साकारस्वरूपाणि सन्ति।
Hindusthan Samachar / Divya Ranjan