राष्ट्रीयशिक्षकपुरस्कार-२०२६ कृते मध्यप्रदेशस्य द्वयोः व्यावसायिकप्रशिक्षणाधिकारिण्योः चयनम्
भोपालम्, २७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य द्वयोः व्यावसायिक-प्रशिक्षणाधिकारिण्योः राष्ट्रीय-शिक्षक-पुरस्कार-२०२६ कृते चयनं जातम्। ताभ्यां २०२६ तमस्य वर्षस्य सितम्बर-मासस्य ५ दिनाङ्के नवदिल्ली-स्थिते विज्ञानभवने आयोजिते समारोहे राष्ट्रपतिना द्रौप
ज्योतिबाला राठौर


रीना गुप्ता


भोपालम्, २७ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य द्वयोः व्यावसायिक-प्रशिक्षणाधिकारिण्योः राष्ट्रीय-शिक्षक-पुरस्कार-२०२६ कृते चयनं जातम्। ताभ्यां २०२६ तमस्य वर्षस्य सितम्बर-मासस्य ५ दिनाङ्के नवदिल्ली-स्थिते विज्ञानभवने आयोजिते समारोहे राष्ट्रपतिना द्रौपद्या मुर्मूवर्यया पुरस्कारः प्रदास्यते।

जनसम्पर्काधिकारिणी बबितामिश्रा गुरुवासरे अवदत् यत् भारतसर्वकारस्य कौशलविकास-उद्यमितामन्त्रालयेन व्यावसायिकप्रशिक्षणस्य उद्यमिता-विकासस्य च क्षेत्रे उत्कृष्टतायाः श्रेण्यां देशव्यापिन्या चयनितानां प्रशिक्षणा-धिकारिणां सूच्यां मध्यप्रदेशस्य द्वौ अधिकारी अपि स्थानं प्राप्तवन्तौ। प्रदेशात् शासकीय-औद्योगिकप्रशिक्षणसंस्थानस्य उज्जयिन्याः रीना गुप्ता तथा राष्ट्रीय-कौशलप्रशिक्षणसंस्थानस्य (महिला) इन्दौरस्य ज्योतिबाला राठौरः इत्येतयोः राष्ट्रीयशिक्षकपुरस्कार-२०२६ कृते चयनं कृतम् अस्ति।

रीनागुप्तायाः चयनं दिव्याङ्ग-प्रशिक्षणार्थिभ्यः प्रशिक्षणप्रदाने क्षेत्रे तस्याः उत्कृष्टयोगदानाय कृतम् अस्ति। तया दिव्याङ्गप्रशिक्षणार्थिभ्यः गुणवत्तापूर्णं व्यावसायिकप्रशिक्षणं प्रदातुं महत्त्वपूर्णा भूमिका निर्व्यूढा। अपरतः ज्योतिबाला-राठौरस्य चयनं व्यावसायिक-प्रशिक्षणस्य उद्यमिताविकासस्य च क्षेत्रे तस्याः उत्कृष्टयोगदानाय कृतम् अस्ति।

राष्ट्रीयशिक्षकपुरस्कार-२०२६ कृते अधिकारिण्योः चयनस्य विषये प्रदेशस्य कौशलविकास-रोजगारराज्यमन्त्रिणा गौतमटेटवालः ताभ्यां शुभकामनाः प्रदत्तवान्। मन्त्री टेटवालः अवदत् यत् एषा उपलब्धिः प्रदेशे गुणवत्तापूर्णव्यावसायिक-प्रशिक्षणस्य कौशलविकासस्य च क्षेत्रे क्रियमाणानाम् उत्कृष्टकार्याणां राष्ट्रीय-स्तरे प्राप्ता मान्यता अस्ति। उभयोः प्रशिक्षणाधि-कारिण्योः चयनं प्रदेशस्य कृते गौरवस्य विषयः अस्ति तथा अनेन कौशल-विकासतन्त्रे सम्बद्धानां प्रशि-क्षकाणां प्रशिक्षणार्थिनां च प्रेरणा भविष्यति।

जनसम्पर्काधिकारिणी अवदत् यत् राष्ट्रीयशिक्षकपुरस्कार-२०२६ सम्मान-समारोहः अग्रिमे ५ सितम्बर, २०२६ दिनाङ्के नवदिल्लीस्थिते विज्ञानभवने आयोजितः भविष्यति। समारोहे राष्ट्रपतिना द्रौपद्या मुर्मूवर्यया चयनितेभ्यः प्रशिक्षणा-धिकारिभ्यः राष्ट्रीयशिक्षक-पुरस्कारः प्रदास्यते। पुरस्कारस्य अन्तर्गतं प्रशस्ति-पत्रं, पञ्चाशत्सहस्ररुप्यकाणां नगदराशिः पदकं च प्रदास्यते।

मध्यप्रदेशस्य उभयोः प्रशिक्षणाधिकारिण्योः राष्ट्रीयशिक्षकपुरस्कार-२०२६ कृते चयनं प्रदेशे व्यावसायिकप्रशिक्षणस्य, कौशल-विकासस्य, उद्यमिताविकासस्य च क्षेत्रेषु क्रियमाणानाम् उत्कृष्टकार्याणां महत्त्व-पूर्णा राष्ट्रीयमान्यता अस्ति। एषा उपलब्धिः प्रदेशस्य प्रशिक्षणाधिकारिभ्यः, प्रशिक्षके-भ्यः, प्रशिक्षणार्थिभ्यः कौशल-विकास-सम्बद्धेभ्यः संस्थानेभ्यश्च प्रेरणा-दायिनी अस्ति तथा व्यावसायिक-प्रशिक्षणक्षेत्रे उत्कृष्टतायै क्रियमाणान् प्रयत्नान् अधिकं प्रोत्साहयिष्यति।

Hindusthan Samachar / Divya Ranjan