प्रधानमन्त्री अद्य देशस्य युवभिः सह करिष्यति ‘खेलो इण्डिया संवादम्’, मध्यप्रदेशस्य ११० महाविद्यालयेषु भविष्यति कार्यक्रमः
भोपालम्, २७ अगस्तमासः (हि.स.)। राष्ट्रीयक्रीडादिवसस्य उपलक्ष्ये आयोजितस्य राष्ट्रव्यापिनः ‘माय भारत युवा कनेक्ट’ कार्यक्रमस्य अन्तर्गतं अद्य गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी दृक्-श्राव्यमाध्यमेन देशव्यापिभिः युवभिः सह संयुक्त: भूत्वा ‘खेलो इण्ड
मोदी


भोपालम्, २७ अगस्तमासः (हि.स.)। राष्ट्रीयक्रीडादिवसस्य उपलक्ष्ये आयोजितस्य राष्ट्रव्यापिनः ‘माय भारत युवा कनेक्ट’ कार्यक्रमस्य अन्तर्गतं अद्य गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदी दृक्-श्राव्यमाध्यमेन देशव्यापिभिः युवभिः सह संयुक्त: भूत्वा ‘खेलो इण्डिया संवादं’ करिष्यति।

मध्यप्रदेशस्य क्रीडा-युवकल्याणमन्त्री विश्वाससारङ्गः अवदत् यत् अस्य विशेषकार्यक्रमस्य माध्यमेन देशस्य प्रायः १६०० संस्थाभिः सम्बद्धाः ८ लक्षाधिकाः युवानः एकस्मिन् सहभागीराष्ट्रीयमञ्चे प्रधानमन्त्रिणा सह सम्बद्धाः भविष्यन्ति। अस्मिन् अवसरे मध्यप्रदेशस्य ११० महाविद्यालयेषु कार्यक्रमाः आयोजिताः भविष्यन्ति। एतेषु कार्यक्रमेषु यूनां सक्रियसहभागितां सुनिश्चितं करिष्यते।

युवा-क्रीडकाः देशस्य भविष्यं च एकस्मिन् मञ्चे आनेतुं प्रयत्नः

मन्त्री सारङ्गस्य अनुसारं ‘माय भारत युवा कनेक्ट’ कार्यक्रमस्य मुख्योद्देश्यं देशस्य युवानः, क्रीडकाः देशस्य भविष्यं च एकस्मिन् सहभागीमञ्चे संयोजयितुम् अस्ति। अस्य अन्तर्गतं देशस्य प्रत्येकस्मिन् जनपदे महाविद्यालयद्वये ‘युवा कनेक्ट’ कार्यक्रमाः आयोजिताः क्रियन्ते। एतेषां कार्यक्रमाणां माध्यमेन युवभ्यः क्रीडाजगत्सम्बद्धैः क्रीडकैः सह, सांसदैः, विधायकैः, मन्त्रिभिः स्थानीयजन-प्रतिनिधिभिश्च प्रत्यक्षं संवादं कर्तुम् अवसरः प्राप्स्यते।

सः अवदत् यत् कार्यक्रमस्य माध्यमेन युवभ्यः विगतेषु १२ वर्षेषु देशे क्रीडाक्षेत्रे अभवद्भिः परिवर्तनैः, उन्नतया क्रीडाधो-संरचनया शीघ्रं विकसितस्य क्रीडा-परितन्त्रस्य च विषये अवगतिः प्रदास्यते। तदनन्तरं यछनां विचारान्, सुझावान् आकाङ्क्षाश्च श्रोतुम् अवसरः अपि प्राप्स्यते।

कार्यक्रमस्य विशेषता भविष्यति यत् प्रधानमन्त्री दृक्-श्राव्यमाध्यमेन देशस्य प्रायः १६०० विभिन्नस्थानेषु उपस्थितान् ८ लक्षाधिकान् युवानः सम्बोधयिष्यति। अनेन देशस्य विभिन्नभागेषु स्थिताः युवानः एकेन सहभागीराष्ट्रीयमञ्चेन सम्बद्धाः भविष्यन्ति तथा क्रीडाक्षेत्रे भारतस्य नूतनसम्भावनानां विषये संवादं करिष्यन्ति। कार्यक्रमे सम्मिलिताः सर्वे अतिथयः युवप्रतिभागिनश्च प्रातः १० वादनपर्यन्तं निर्धारितकार्यक्रमस्थलेषु उपस्थिताः भविष्यन्ति। प्रधानमन्त्रिणः सम्बोधनानन्तरं कार्यक्रमस्य केन्द्रं स्थानीयस्तरे युवभिः सह संवादः भविष्यति।

स्थानीयक्रीडकैः युवभिश्च मध्ये भविष्यति संवादः

प्रधानमन्त्रिणः सम्बोधनस्य अनन्तरं ‘माय भारत’-स्वयंसेवकानां स्थानीयक्रीडकानां च मध्ये युवासंवादस्य विशेषसत्रम् आयोजितं भविष्यति। अस्मिन् अवसरे विगतेषु १२ वर्षेषु देशस्य क्रीडाधोसंरचनायां जातानां परिवर्तनानां भारतस्य च शीघ्रं विकसितस्य क्रीडापरितन्त्रस्य विषये चर्चा भविष्यति।

कार्यक्रमे उपस्थितः स्थानीयसांसदः, विधायकः अथवा मन्त्री अपि युवभ्यः सम्बोधनं करिष्यति। ततः प्रायः १५ निमेषपरिमितं युवासंवादसत्रम् आयोजितं भविष्यति, यस्मिन् युवानः स्वविचारान्, भविष्यसम्बद्धाः स्वकीयाः आकाङ्क्षाश्च सहभागं कर्तुं शक्नुवन्ति।

Hindusthan Samachar / Divya Ranjan