रक्षामन्त्री राजनाथसिंहः अद्य जबलपुरे ४५० कोटिरूप्यकाणां टङ्क-ओव्हरहॉल-परियोजनायाः भूमिपूजनं करिष्यति
जबलपुरम्, २७ अगस्तमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः अद्य भारतीय-सैन्यशक्तिं सुदृढां कर्तुं देशे रक्षाउत्पादनाय नूतनां दिशां प्रदातुं च मध्यप्रदेशस्य जबलपुराय महत्त्वपूर्णम् उपहारं प्रदास्यति। सः व्हीकल फैक्टरी जबलपुरे आयोजिते कार्यक्रमे ४५० को
राजनाथ सिंह (फाइल)


जबलपुरम्, २७ अगस्तमासः (हि.स.)। रक्षामन्त्री राजनाथसिंहः अद्य भारतीय-सैन्यशक्तिं सुदृढां कर्तुं देशे रक्षाउत्पादनाय नूतनां दिशां प्रदातुं च मध्यप्रदेशस्य जबलपुराय महत्त्वपूर्णम् उपहारं प्रदास्यति। सः व्हीकल फैक्टरी जबलपुरे आयोजिते कार्यक्रमे ४५० कोटिरूप्यकाणां व्ययेन स्थाप्यमानस्य टी-श्रेणी-टङ्कानाम् ओव्हरहॉल-परि-योजनायाः भूमिपूजनं करिष्यति।

जनसम्पर्काधिकारी एम.एस. उइके इत्यनेन उक्तं यत् अस्याः ओव्हरहॉल-परियोजनायाः माध्यमेन जबलपुरं पुनरपि देशस्य रक्षामानचित्रे स्वकीयां सामरिकीं औद्योगिकीं च क्षमतां सिद्धयिष्यति। रक्षामन्त्रालयस्य अस्मात् परियोजनातः न केवलं रक्षोपकरणानां विषये आत्मनिर्भरता वर्धिष्यते, अपि तु महाकौशलक्षेत्रे प्रत्यक्ष-अप्रत्यक्षरूपेण नूतनानां रोजगारावसराणां बहूनां सृजनम् अपि भविष्यति।

निर्धारितकार्यक्रमानुसारं रक्षामन्त्री राजनाथसिंहः पूर्वाह्णे ११:५५ वादने गोवातः वायुयानेन जबलपुरस्य डुमना-विमानपत्तने आगमिष्यति। मुख्यमन्त्री डॉ. मोहनयादवः डुमना-विमानपत्तने रक्षामन्त्रिणः सिंहस्य स्वागतं करिष्यति। ततः सः मध्याह्ने १२:२० वादने व्हीकल् फैक्टरी इत्यत्र प्राप्स्यति। रक्षामन्त्री मध्याह्ने १२:३५ वादने व्हीकल् फैक्टरीमध्ये टी-श्रेणी-टङ्क इत्यादीनाम् ओव्हरहॉल-परियोजनायाः भूमिपूजन-समारोहे सम्मिलितः भविष्यति। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनयादवः अपि उपस्थितः भविष्यति।

कार्यक्रमानन्तरं रक्षामन्त्री सिंहः मध्याह्ने २:३५ वादने व्हीकल फैक्टरीतः प्रस्थाय २:४५ वादने साउथसिविललाइन्-क्षेत्रं प्राप्स्यति। तत्र सः दलस्य नेतृभिः सह आयोज्यमानायां सभायां सम्मिलितः भविष्यति। ततः मध्याह्ने ३:१५ वादने डुमना-विमानपत्तनं प्रति प्रस्थास्यति तथा ३:२० वादने वायुयानेन नवदिल्ली इत्यत्र प्रस्थास्यति।

Hindusthan Samachar / Divya Ranjan