असमे सिंचाई क्षेत्राय पञ्चसु वर्षेषु 7,000 कोटिरुप्यकाणां व्ययः लक्ष्यः - पीयूषः
गुवाहाटी, 27 अगस्तमासः (हि.स.)। कृषि-सिञ्चनमन्त्रिणा पीयूषहजारिकामहोदयेन आगामिषु पञ्चवर्षेषु सिञ्चनक्षेत्रे न्यूनातिन्यूनं ७,००० कोटिरूप्यकाणि व्ययितुं लक्ष्यं निर्धारितम् अस्ति। विगतेषु पञ्चवर्षेषु विभागेन प्रायः २,५०० कोटिरूप्यकाणि व्ययितानि आस
Agriculture and Irrigation Minister Pijush Hazarika on Thursday Chairing a Meeting.


गुवाहाटी, 27 अगस्तमासः (हि.स.)।

कृषि-सिञ्चनमन्त्रिणा पीयूषहजारिकामहोदयेन आगामिषु पञ्चवर्षेषु सिञ्चनक्षेत्रे न्यूनातिन्यूनं ७,००० कोटिरूप्यकाणि व्ययितुं लक्ष्यं निर्धारितम् अस्ति। विगतेषु पञ्चवर्षेषु विभागेन प्रायः २,५०० कोटिरूप्यकाणि व्ययितानि आसन्।

जनताभवने सिञ्चनविभागस्य उच्चस्तरीयां समीक्षासभां अध्यक्षतया सञ्चालयन् हजारिकामहोदयः अधिकारिभ्यः बृहद्परिमाणस्य परियोजनानां प्राथमिकतया कार्यान्वयनस्य तथा २०० कोटिरूप्यकाणां समग्रव्ययेन ४० प्रमुखयोजनानां सज्जीकरणस्य निर्देशं दत्तवान्। धनराशेः उपयोगे विलम्बस्य अधिकारिणां च उपेक्षायाः विषये सः कठोरकार्यवाहीं कर्तुं संचेनताम् अददात्।

मन्त्रिणा सिञ्चनपरियोजनाः केवलं जिलासीमासु सीमिताः न स्थापयित्वा आवश्यकतानुसारं अन्तरजिलाक्षेत्रेष्वपि तासां विस्तारं कर्तुं निर्देशः दत्तः। परियोजनानां कृते ईएपी, आरआईडीएफ तथा एसओपीडी इत्येतेषां योजनानां अन्तर्गतं धनराशेः व्यवस्थां कृत्वा आगामीवर्षस्य प्रारम्भे निविदाः आमन्त्रयितुं च सः निर्देशं दत्तवान्।

Hindusthan Samachar / Dheeraj Maithani