आधुनिकक्रीडा-पारिस्थितिकतन्त्रस्य निर्माणाय केन्द्रसर्वकारः प्रतिबद्धः - प्रधानमन्त्री
नवदिल्ली, २७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अवदत् यत् केन्द्रसर्वकारः एकविंशतितमस्य शताब्दस्य आधुनिकं क्रीडा-पारिस्थितिक-तन्त्रं निर्मातुं पूर्णतया प्रतिबद्धः अस्ति। अद्य देशे क्रीडाविश्वविद्यालयात् आरभ्य आधुनिकप्रशिक्षणकेन
प्रधानमंत्री कार्यक्रम को संबोधित करते हुए


नवदिल्ली, २७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे अवदत् यत् केन्द्रसर्वकारः एकविंशतितमस्य शताब्दस्य आधुनिकं क्रीडा-पारिस्थितिक-तन्त्रं निर्मातुं पूर्णतया प्रतिबद्धः अस्ति। अद्य देशे क्रीडाविश्वविद्यालयात् आरभ्य आधुनिकप्रशिक्षणकेन्द्रपर्यन्तं सम्पूर्णा व्यवस्था निर्मीयते। अस्यां व्यवस्थायां प्रतिभायाः अभिज्ञानात् आरभ्य तस्याः वैश्विकक्रीडामञ्चे प्रवेशपर्यन्तं प्रत्येक-स्मिन् स्तरे सहयोगः प्रदास्यते।

सः अवदत् यत् सर्वकारः विश्वस्य अन्यैः देशैः सह क्रीडाविज्ञानस्य, अभ्यासस्य, प्रशिक्षणस्य अनुभवानां च आदानप्रदानाय सहयोगं वर्धयति। एतत् कार्यं कीयत् गम्भीरतया क्रियते इत्यस्य एकम् उदाहरणम् ‘खेलो इण्डिया संवादः’ अस्ति।

प्रधानमन्त्रिणा अद्य दृक्श्रव्यसम्पर्क-माध्यमेन ‘खेलो इण्डिया संवादम्’ इति कार्यक्रमः सम्बोधितः। अस्य कार्यक्रमस्य उद्देश्यम् युवानः भारतस्य क्रीडायात्रया सह संयोजयितुम्, तेषाम् आकाङ्क्षाः ज्ञातुम् तथा युवानेतृत्वयुक्तस्य विकसितभारतस्य निर्माणाय तेषां विचाराणां योगदानं प्राप्तुम् अस्ति।

स्वसम्बोधने प्रधानमन्त्री अवदत् यत् ‘खेलो इण्डिया संवादः’ केवलं क्रीडायाः विषये चर्चां कर्तुं कार्यक्रमः नास्ति। एषः क्रीडकाणां विचारान् आकाङ्क्षाश्च देशस्य स्वप्नैः सह संयोजयितुं महत्त्वपूर्णं माध्यमम् अस्ति। सः अवदत् - “वयं प्रायः शृणुमः यत् स्वस्थसमाजाय क्रीडाभावनायाः अस्तित्वम् आवश्यकम् अस्ति। किन्तु क्रीडाङ्गणे अवतीर्य एव तस्याः भावनायाः विकासः सम्भवति। क्रीडा अस्मान् न केवलं विजेतारः भवितुं शिक्षयति, अपितु उत्तमप्रतिस्पर्धिनः भवितुमपि शिक्षयति।”

नरेन्द्रमोदी अवदत् यत् रक्तदुर्गात् तेन पञ्चवर्षात् पञ्चदशवर्षपर्यन्तं वयःप्राप्तानां बालकानां प्रतिभानां परिचयाय व्यापकस्य प्रतिभान्वेषणाभियानस्य घोषणा कृता आसीत्। अस्माभिः केवलम् एतन्न परीक्षितव्यं यत् बालकाः कस्मिन् क्रीडाप्रकारे रुचिं धारयन्ति, अपितु एतदपि परीक्षितव्यं यत् कः क्रीडाप्रकारः तेषां कृते सर्वाधिकं उपयुक्तः अस्ति। तदनुसारं तेषां प्रशिक्षणं करणीयम्। अस्मिन् विषये भवद्भ्यः सर्वकारस्य पूर्णः सहयोगः प्राप्स्यते। अस्माकं सर्वकारः एकविंशति-तमस्य शताब्दे: कृते आधुनिकां क्रीडाव्यवस्थां विकसितुं पूर्णतया प्रतिबद्धः अस्ति।

सः रक्तदुर्गे स्वेन दत्तस्य भाषणस्य उल्लेखं कुर्वन् अवदत् यत् सम्प्रति देशस्य समक्षं क्रीडाभिः सम्बद्धा एका महती समस्या अस्ति। भारतस्य क्रीडादलं ओलम्पिक इत्यस्य अर्धेष्वपि क्रीडाप्रकारेषु भागं न गृह्णाति, एषा स्थितिः दशकान् यावत् प्रवर्तमाना अस्ति। सः सर्फिङ्ग-क्रीडायाः पर्वतारोहण-क्रीडायाश्च उदाहरणम् अपि दत्तवान्। सः अवदत्— “जनसांख्यिकदृष्ट्या भौगोलिकदृष्ट्या च अस्माकं देशस्य स्थितिः सुदृढा अस्ति, तथापि एतेषु क्रीडाप्रकारेषु अस्माकं सुदृढं प्रतिनिधित्वं नास्ति।”

सः अवदत् - “अद्य देशस्य प्रयत्नः अस्ति यत् एतेषु क्रीडाप्रकारेषु पारिस्थितिकतन्त्रं विकसितं क्रियेत तथा च तेषां विकासस्य अग्रे वर्धनस्य सम्भावनानां विषये विचारः क्रियेत।”

प्रधानमन्त्री अस्मिन् अवसरे अगस्त-मासस्य २९ दिनाङ्के आयोज्यमानस्य राष्ट्रीयक्रीडादिवसस्य अग्रिमशुभकामनाः अर्पितवान् तथा मेजरध्यानचन्दं स्मृतवान्। सः अवदत् यत् शतवर्षपूर्वं भारतीयसेनायाः एका हॉकी-क्रीडादलं न्यूजीलैण्डदेशस्य यात्रां कृतवती आसीत् तथा तस्मिन् दले मेजरध्यानचन्दः अपि आसीत्। सा यात्रा भारतस्य न्यूजीलैण्डदेशस्य च क्रीडासम्बन्धानां शतवर्षपूर्तेः आधाररूपा अस्ति।

उल्लेखनीयं यत् राष्ट्रीयक्रीडादिवसः २०२६ इत्यस्य उत्सवस्य एकस्य भागस्य रूपेण ‘मेरा युवा भारत’ इत्यनेन आयोजितः अयं कार्यक्रमः देशस्य सर्वेषु राज्येषु केन्द्रशासितप्रदेशेषु च प्रत्येकस्मात् जनपदात् द्वयोः महाविद्यालययोः यूनां सहभागितया आयोजितः भविष्यति। अयं कार्यक्रमः प्रधानमन्त्रिणः तेन दृष्टिकोणेन अनुरूपतया आयोजितः अस्ति, यस्मिन् यूनाम् आकाङ्क्षाः राष्ट्रीयविकासस्य कार्यसूच्याः केन्द्रे स्थापयित्वा स्वस्थं, अनुशासितं, क्रीडासमर्पितं च राष्ट्रं निर्मातुम् अन्तर्भवति।

राष्ट्रव्यापी ‘खेलो इण्डिया संवादः’ क्रीडां, युवानेतृत्वम्, नागरिकदायित्वम्, स्वयं-सेवित्वम्, स्वास्थ्यसुदृढतां राष्ट्रनिर्माणं च एकस्मिन् सहभाग-मञ्चे समानेष्यति। एषः युवभ्यः देशस्य क्रीडासम्बद्धाभिलाषाभिः सह प्रत्यक्षतया संयोजितुं अवसरं प्रदास्यति। तत्सह एतदपि सुनिश्चितं करिष्यति यत् तेषां विचाराः दृष्टिकोणाश्च भारतस्य युवा-क्रीडा-पारिस्थितिकतन्त्रस्य विषये प्रचलितस्य निरन्तरस्य विचारविमर्शस्य भागाः भवन्तु।

Hindusthan Samachar / Divya Ranjan