Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः ११ वादने दृक्-श्राव्यमाध्यमेन ‘खेलो इण्डिया संवादे’ यूनः सम्बोधयिष्यति। अस्मिन् कार्यक्रमे देशस्य सर्वेभ्यः भागेभ्यः युवानः भागं ग्रहीष्यन्ति। अस्य उद्देश्यं क्रीडायाः, युवानेतृत्वस्य, नागरिकदायित्वस्य, स्वयं-सेवाकार्यस्य, शारीरिकस्वास्थ्यस्य राष्ट्र-निर्माणस्य च कृते एकं सहभाग-मञ्चं प्रदातुम् अस्ति।
प्रधानमन्त्रीकार्यालयेन उक्तं यत् अयं कार्यक्रमः ‘मेरा युवा भारत’ इत्यस्य तत्वावधाने राष्ट्रीयक्रीडादिवसस्य अवसरे आयोजितः भवति। देशस्य राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च प्रत्येकं जिल्लातः महाविद्यालयद्वयस्य युवानः अस्मिन् कार्यक्रमे भागं ग्रहीष्यन्ति। प्रधानमन्त्री अस्य संवादस्य माध्यमेन स्वस्थं, अनुशासितं क्रीडाभावनया च युक्तं राष्ट्रं निर्मातुम् इति स्वदृष्टेः अनुरूपं युवभिः सह संवादं करिष्यति। अस्मिन् यूनाम् आकाङ्क्षाः राष्ट्रीयविकासस्य कार्यसूच्याः केन्द्रे स्थापिता सन्ति।
उक्तं यत् ‘खेलो इण्डिया संवादस्य’ अनन्तरं स्थानीयस्तरे युवभिः, स्वयंसेवकैः, क्रीडकैः जनप्रतिनिधिभिश्च सह संवादः भविष्यति। अस्मिन् युवभ्यः प्रमुखैः भारतीयक्रीडकैः पदकविजेतृभिश्च सह प्रत्यक्षं संवादं कर्तुं अवसरः प्राप्स्यते। कार्यक्रमस्य मुख्याकर्षणं युवासंवादः भविष्यति। अस्मिन् प्रतिभागिनः अपि स्वविचारान् प्रकटयितुं शक्नुवन्ति।
अयं संवादः पञ्चसु प्रमुखविषयेषु केन्द्रितः भविष्यति। तेषु—उत्तमसुविधाभिः प्रशिक्षकैश्च क्रीडापरितन्त्रस्य सुदृढीकरणम्, २०३६ तमस्य वर्षस्य ओलम्पिक्-क्रीडोत्सवाय प्रतिभापरिचयं दीर्घकालिकं क्रीडकविकासं च, शासनमञ्चानां स्वयंसेवाकार्यस्य च माध्यमेन युवा-नेतृत्वस्य विकासः, नागरिक-दायित्वस्य भविष्यकौशलस्य च माध्यमेन विकसित-भारताय यूनाम् सशक्तीकरणम्, तथा क्रीडायाः सहक्रीडकाणां च जालकस्य माध्यमेन नशामुक्तयुवान्दोलनस्य सुदृढीकरणम् इति विषयाः प्रमुखाः सन्ति।
Hindusthan Samachar / Divya Ranjan