प्रधानमन्त्रिणा मोदिना परम्पराणां ज्ञानस्य च अग्रे संवर्धनस्य आह्वानम्
नवदिल्ली, २७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः स्वकीय-‘एक्स’-सामाजिकमाध्यमपुटे ऋग्वेदस्य एकं महत्त्वपूर्णं मन्त्रं सुभाषितरूपेण सहभागं कृतवान्। तेन अस्य माध्यमेन परम्पराणां ज्ञानस्य च अग्रे संवर्धनस्य आह्वानं कृतम्। तत् सुभ
प्रधानमंत्री नरेन्द्र मोदी की एक्स पोस्ट।


नवदिल्ली, २७ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः स्वकीय-‘एक्स’-सामाजिकमाध्यमपुटे ऋग्वेदस्य एकं महत्त्वपूर्णं मन्त्रं सुभाषितरूपेण सहभागं कृतवान्। तेन अस्य माध्यमेन परम्पराणां ज्ञानस्य च अग्रे संवर्धनस्य आह्वानं कृतम्।

तत् सुभाषितम् अस्ति—“तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान्।अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम्॥”

अयं मन्त्रः ऋग्वेदस्य दशममण्डलस्य त्रिपञ्चाशत्तमस्य सूक्तस्य षष्ठः मन्त्रः अस्ति। प्रधानमन्त्रिणा स्वकीय-पोस्ट्-मध्ये अस्य मन्त्रस्य भावार्थः कथितः— “मनुष्यः स्वपरम्परां ज्ञानं च अग्रे संवर्धयन् श्रेष्ठानि कर्माणि कुर्यात्।”

‘एक्स’-पोस्ट्-अनुसारम्— “मनुष्यः बुद्ध्या निर्मितस्य न्यायपूर्णस्य प्रकाशमयस्य च मार्गस्य अनुसरणं कुर्यात्। श्रेष्ठजनानां सदाचारान् जीवने स्वीकृत्य निरन्तरं विचारशीलः भवेत् तथा दिव्यगुणसम्पन्नानां जनानां निर्माणं कुर्यात्।”

/ अंशु गुप्ता