रक्षाबन्धनपर्वणि शुद्धखाद्यपदार्थानां सुनिश्चिततायै सम्पूर्णप्रदेशे विशेषाभियानम्
लखनऊ, २७ अगस्तमासः (हि.स.)। उत्सवकाले प्रदेशवासिभ्यः शुद्धान्, सुरक्षितान् गुणवत्तापूर्णान् च खाद्यपदार्थान् प्रदातुं योगिसर्वकारस्य प्रतिबद्धतायाः अन्तर्गतं खाद्यसुरक्षा-औषधिप्रशासन-विभागः, उत्तरप्रदेशः मिश्रणकारिणां विरुद्धम् अभियानं अधिकं तीव्रं
मुख्यमंत्री योगी आदित्यनाथ


लखनऊ, २७ अगस्तमासः (हि.स.)। उत्सवकाले प्रदेशवासिभ्यः शुद्धान्, सुरक्षितान् गुणवत्तापूर्णान् च खाद्यपदार्थान् प्रदातुं योगिसर्वकारस्य प्रतिबद्धतायाः अन्तर्गतं खाद्यसुरक्षा-औषधिप्रशासन-विभागः, उत्तरप्रदेशः मिश्रणकारिणां विरुद्धम् अभियानं अधिकं तीव्रं कृतवान् अस्ति।

रक्षाबन्धनपर्वणः सन्दर्भे प्रदेशस्य विभिन्नेषु जनपदेषु बृहद्स्तरे कार्यवाही कृता। अभियानस्य अन्तर्गतं यावत् १८ प्रथमसूचनाप्रतिवेदनानि पञ्जीकृतानि, १८२ खाद्यनमूनानि सङ्गृहीतानि, १३,४४०.२५ किलोग्रामपरिमिता १४,५६१ लीटरपरिमिता च सामग्री गृहीता अस्ति।तथैव १८,६०७ किलोग्रामपरिमिता ७,६३० लीटरपरिमिता च असुरक्षित-अस्वच्छ-खाद्यसामग्री विनष्टा कारिता अस्ति। जप्तसामग्र्याः अनुमानितं मूल्यं प्रायः २६.०९ लक्षरूप्यकाणि तथा विनष्टसामग्र्याः मूल्यं प्रायः २७.८९ लक्षरूप्यकाणि अस्ति।

१६ जनपदेषु विशेषप्रवर्तनदलानि

कानपुरनगरम्, कानपुरदेहात्, लखनऊ, मुजफ्फरनगरम्, मेरठम्, कासगञ्जः, अलीगढः, बागपत्, प्रयागराजः, गाजियाबादः, आगरा, हापुडः, सन्तकबीर-नगरम्, फिरोजाबादः, बदायूँ, सम्भलः, मथुरा इत्यादिषु विभिन्नेषु जनपदेषु कार्यवाही कृता।

कानपुरतः मेरठपर्यन्तं मिश्रणकारिषु कठोरकार्यवाही

कानपुरनगरे हटियाखोवामण्ड्यां १४ विक्रेतॄणां निरीक्षणं कृत्वा १८ नमूनानि गृहीतानि तथा अस्वच्छपरिस्थितौ स्थापितं प्रायः ४.३० कुन्तलपरिमितं खोवां विनष्टं कारितम्। एक्सप्रेस-वे तथा फजलगञ्ज-खोवामण्ड्यां च नमूनानि गृहीतानि। कानपुरदेहाते खोवानिर्माणकेन्द्रेषु परि-ष्कृततैलस्य, वनस्पतेः, एसएमपी इत्यस्य च प्रयोगस्य प्रकरणानि प्रकाशे आगतानि। तत्र निर्मितं खोवां विनष्टं कारितम्, सन्दिग्धसामग्री गृहीता तथा सम्बन्धितेषु प्रकरणेषु प्रथमसूचना-प्रतिवेदनानि पञ्जीकृतानि।

लखनऊनगरे शिवाक्षी-स्वीट्स इत्यत्र कार्यवाहीसमये १५ नमूनानि गृहीतानि। ६८६ किलोग्रामपरिमिता खाद्यसामग्री गृहीता तथा २,६७५ किलोग्रामपरिमितं दूषितखाद्यपदार्थं विनष्टं कारितम्। अस्वच्छपरिस्थितेः कारणात् व्यवसायः अपि स्थगितः कारितः।

कृत्रिमघृतं मिश्रितामीक्ष्यं च निर्मातॄणां विरुद्धं कठोरा कार्यवाही

सम्भले कृत्रिमघृतनिर्माणस्थले आक्रमणं कृत्वा प्रायः १०० कुन्तलपरिमितं घृतं गृहीतम्। प्रथमसूचनाप्रतिवेदनं पञ्जीकृत्य परिसरः मुद्राङ्कितः तथा व्यवसायः स्थगितः कारितः। बदायूँनगरे वाहनपरीक्षणसमये १,६०५ किलोग्राम-परिमितं देशीघृतं गृहीतम्, यस्य अनुमानितं मूल्यं १०.५३ लक्षरूप्यकाणि अस्ति। कासगञ्जे ४ कुन्तलपरिमितम् आमीक्ष्यं विनष्टं कारितम्, हापुडे च प्रायः ६ कुन्तलपरिमितम् आमीक्ष्यं विनष्टं कारितम्। मथुरायां परिष्कृततैलस्य सन्दिग्धरसायनानां च प्रयोगेन पनीरनिर्माणस्य त्रिषु प्रकरणेषु प्रथम-सूचनाप्रतिवेदनानि पञ्जीकृतानि।

मिश्रणस्य ‘कच्चामाल’ इत्यस्य अपि विभागेन कृतं निरीक्षणम्

अभियाने स्किम्ड्-मिल्क-पाउडर, वनस्पतिः, परिष्कृततैलम्, कृत्रिमवर्णकाः, सोडियमबाईकार्बोनेट् तथा सन्दिग्ध-रसायनानि गृहीतानि। प्रयागराजे ७२ कुन्तलपरिमिताः विभिन्नाः खाद्यसामग्र्यः विनष्टाः कारिताः, अलीगढे च १७.५ कुन्तलपरिमितं खोवां विनष्टं कारितम्। फिरोजाबादे १० कुन्तलपरिमितं मावां विनष्टं कारयित्वा द्वे प्रथमसूचनाप्रतिवेदने पञ्जीकृते। गाजियाबादे सन्दिग्ध-रसायनानि अन्याः सामग्रीश्च गृहीत्वा द्वे प्रथमसूचनाप्रतिवेदने पञ्जीकृते।

Hindusthan Samachar / Divya Ranjan