Enter your Email Address to subscribe to our newsletters

रायपुरम्, 27 अगस्तमासः (हि.स.)।
छत्तीसगढविधानसभाध्यक्षः डॉ. रमनसिंहः प्रदेशवासिभ्यः रक्षाबन्धनपर्वणः बधाईः शुभकामनाः च प्रदत्तवान्। स्वसन्देशे डॉ. रमनसिंहः गुरुवासरे अवदत् यत् भारतीयसामाजिकव्यवस्था अद्य सम्पूर्णस्य विश्वस्य कृते प्रेरणायाः स्रोतः अस्ति। अस्माकं सामाजिकव्यवस्थायां भ्रातृभगिन्योः सम्बन्धः एकः एतादृशः पवित्रः सम्बन्धः अस्ति, यस्य अन्यत्र काऽपि उपमा नास्ति। रक्षाबन्धनं विशेषरूपेण भावनानां संवेदनानां च पर्व अस्ति। एतत् भ्रातृभगिन्योः स्नेहस्य, श्रद्धायाः विश्वासस्य च सूत्रेण आबद्धम् अस्ति। अतः एतत् आत्मीयतायाः प्रेम्णः च बन्धनेन सम्बन्धान् सुदृढीकुर्वत् पर्व इति कथ्यते।
सः अवदत् यत् रक्षाबन्धनं सनातनसंस्कृतेः श्रेष्ठम् उदाहरणम् अस्ति, यत् सम्पूर्णे विश्वे भारतीयसामाजिकव्यवस्थायै विशिष्टां परिचितिं प्रददाति। देशे सर्वेषां जातीनां धर्माणां च जनाः एतत् पर्व उत्साहपूर्वकं आचरन्ति। एतत् रक्षाबन्धनस्य महत्त्वस्य, सामाजिकसमरसतायाः सर्वव्यापकतायाश्च परिचायकम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani