Enter your Email Address to subscribe to our newsletters

तूतीकोरिनम् (तमिलनाडुः), 27 अगस्तमासः(हि.स.)।
दक्षिणभारते अद्य वैदिकानुष्ठानरूपेण आवणी-अविट्टम् इति पर्व महता उत्साहेन आचर्यते। अयं पर्व सामान्यतः हिन्दुपञ्चाङ्गानुसारं श्रावणमासस्य पूर्णिमायां तिथौ आचर्यते। तमिलपञ्चाङ्गानुसारम् अयं ‘आवणी’ मासे ‘अविट्टम्’ (धनिष्ठा) नक्षत्रे भवति। अतः अस्य ‘आवणी-अविट्टम्’ इति नाम प्रचलितम् अस्ति।
अस्मिन् दिने पुरुषाः पुरातनं यज्ञोपवीतं विसृज्य नूतनं यज्ञोपवीतं धारणं कुर्वन्ति। अस्मिन् अवसरे वैदिकमन्त्राणां जपः क्रियते तथा पूर्वजेभ्यः ऋषिभ्यश्च कृतज्ञतां प्रकटयितुं विशेषपूजाः अर्चनाश्च आयोज्यन्ते। आवणी-अविट्टम् वेदानां जन्मदिवसरूपेण अपि मन्यते।
कथ्यते यत् अस्मिन्नेव दिने भगवान् विष्णुः हयग्रीवावतारं गृहीत्वा असुरेभ्यः वेदान् पुनः प्राप्तवान् तथा च तान् पुनः पवित्रान् अकरोत्। अतः अयं दिवसः हयग्रीवजयन्तीरूपेण अपि आचर्यते।
अयं दिवसः अतीते कृतानां दोषाणां कृते प्रायश्चित्तस्य तथा भविष्ये वेदानां आध्यात्मिकसाधनानां च विधिवत् पालनं निरन्तरं कर्तुं सङ्कल्पस्य प्रतीकः अपि अस्ति।
आवणी-अविट्टमः पर्वणः अवसरे तूतीकोरिन-नगरे तेप्पाकुलस्य समीपे स्थिते भजनमण्डपे प्रातःकाले एव बहुसंख्याकैः पुरुषैः यज्ञोपवीतपरिवर्तनस्य अनुष्ठानं कृतम्। अस्मिन् अवसरे श्रद्धालुभिः कत्ती-क्रीडायाः प्रदर्शनं कृतम् तथा कोलाट्टमनृत्यं कृत्वा उत्सवः आचरितः।
कुमारपालयम्-नगरे आवणी-अविट्टम् तथा यज्ञोपवीतोत्सवस्य अवसरे सेलम-मार्गे, राजवीथ्यां स्थिते सौण्डम्मन्-मन्दिरे, पालक्करै, बुद्धर-वीथ्यां, कत्तालपेट्टै तथा सदैयाम्पालयम्-सौण्डम्मन्-मन्दिरेषु च विविधेषु स्थलेषु विशेषयज्ञानि पूजाश्च आयोजितानि।
सेलम-मार्गे स्थिते सौण्डम्मन्-मन्दिरे शताधिकैः वीरकुमारैः कत्ती-क्रीडायाः प्रदर्शनं कृतम्, बालिकाभिश्च कोलाट्टमनृत्यं कृत्वा उत्सवः आचरितः। श्रद्धालुभ्यः प्रसादः अन्नदानं च वितरितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani