वीरसैनिकानां बलिदानीपरिवाराणां च सम्मानकल्याणयोः कृते प्रतिबद्धः सर्वकारः - मुख्यमन्त्री धामी
देहरादूनम्, २७ अगस्तमासः (हि.स.)। उत्तराखण्डप्रदेशः सैनिकानां, पूर्वसैनिकानां, वीराङ्गनानां बलिदानीपरिवाराणां च कल्याणाय प्रवर्तितानां योजनानां विषये देशस्य अन्येभ्यः राज्येभ्यः आदर्श-राज्यरूपेण उदेति। राज्यसर्वकारेण अग्निवीराणां कृते पृथक् रोजगार-
मुख्यमंत्री पुष्कर सिंह धामी फाइल चित्र।


देहरादूनम्, २७ अगस्तमासः (हि.स.)। उत्तराखण्डप्रदेशः सैनिकानां, पूर्वसैनिकानां, वीराङ्गनानां बलिदानीपरिवाराणां च कल्याणाय प्रवर्तितानां योजनानां विषये देशस्य अन्येभ्यः राज्येभ्यः आदर्श-राज्यरूपेण उदेति। राज्यसर्वकारेण अग्निवीराणां कृते पृथक् रोजगार-प्रकोष्ठस्य गठनस्य निर्णयः कृतः। तदतिरिक्तं बलिदानीसैनिकानाम् आश्रि-तानां वीरतापुरस्कारप्राप्तसैनिकानां च कृते अनेके महत्त्वपूर्णाः निर्णयाः अपि कृताः।

मुख्यमन्त्री पुष्करसिंहधामी गुरुवासरे प्रकाशिते स्वीयवक्तव्ये अवदत् यत् सर्वकारः वीरसैनिकानां, पूर्वसैनिकानां, वीराङ्गनानां बलिदानीपरिवाराणां च सम्मानस्य कल्याणस्य च कृते पूर्णतया प्रतिबद्धतया कार्यं करोति। सः अवदत् यत् बलिदानीसैनिकानाम् आश्रितेभ्यः परम-वीरचक्रविजेतॄणां परिवारभ्यश्च दीय-मानायाः अनुग्रहराशेः वृद्ध्या सहितं सैनिककल्याणक्षेत्रे अनेके महत्त्वपूर्णाः निर्णयाः गृहीताः सन्ति। सः अवदत् यत् सैन्यधामः राज्यस्य समृद्धसैन्यपरम्परायाः वीरसैनिकानां बलिदानस्य च प्रतीकरूपेण विकसितः भविष्यति।

मुख्यमन्त्रिणः पुष्करसिंहधामिनः नेतृत्वे सर्वकारेण सेनायां चतुर्-वर्षीयसेवां पूर्णां कृत्वा प्रत्यागच्छताम् अग्निवीराणां कृते रोजगारस्य अवसरान् प्रदातुं पृथक् रोजगारप्रकोष्ठस्य गठनाय अनुमतिः प्रदत्ता अस्ति। सर्वकारस्य कथनानुसारम् उत्तराखण्डः एतादृशं प्रकोष्ठं निर्मातुं देशस्य प्रथमं राज्यम् अस्ति। तदतिरिक्तम् अग्निवीराणां कृते शासकीयसेवासु दशप्रतिशतं क्षैतिजारक्षणं प्रदातुं निर्णयः पूर्वमेव कृतः अस्ति।

सर्वकारेण बलिदानीसैनिकानां सम्मानाय तेषां परिवाराणां कल्याणाय च अनेके निर्णयाः कृताः सन्ति। बलिदानीसैनिकानां प्रतिमाः तेषां पैतृकग्रामेषु स्थापयिष्यन्ते। परमवीरचक्रविजेतॄणां परिवारभ्यः दीयमाना अनुग्रहराशिः सार्धैककोटि-रूप्यकेभ्यः वर्धयित्वा द्विकोटिरूप्यकाणि कृता अस्ति। अन्येषां बलिदानी-सैनिकानाम् आश्रितेभ्यः दीयमाना अनुग्रहराशिरपि दशरूप्यक-लक्षेभ्यः वर्धयित्वा पञ्चाशत्-रूप्यकलक्षाणि कृता अस्ति। तदतिरिक्तं विभिन्नैः वीरता-पुरस्कारैः सम्मानितेभ्यः सैनिकेभ्यः दीयमानायाः एकमुष्टिवार्षिक-सहायताराश्योः अपि वृद्धिः कृता अस्ति।

देहरादूने सैन्यधामस्य निर्माणकार्यं पूर्णम् अभवत् तथा तस्य शीघ्रमेव लोकार्पणस्य सज्जता क्रियते। बलिदानीसैनिकानां स्मृतौ निर्मिते सैन्यधामे तेषां पैतृकगृहस्य प्राङ्गणस्य च मृत्तिका सम्मानपूर्वकं आनीता अस्ति। अत्र बलिदानीसैनिकानां शौर्यगाथाः अपि अङ्किताः सन्ति।

राज्यसर्वकारस्य अनुसारं प्रत्येकं बलिदानीपरिवारस्य एकस्मै पात्रसदस्याय शासकीयसेवां प्रदातुं व्यवस्थायाः अन्तर्गतं यावत् २८ आश्रिताः शासकीयसेवायां समायोजिताः सन्ति। सेवायै आवेदनस्य समयसीमापि द्विवर्षेभ्यः वर्धयित्वा पञ्चवर्षाणि कृता अस्ति।

सेवारतसैनिकेभ्यः पूर्वसैनिकेभ्यश्च पञ्च-विंशतिलक्षरूप्यकपर्यन्तं सम्पत्तिक्रयणे मुद्राशुल्के पञ्चविंशतिप्रतिशतस्य न्यूनता प्रदीयते। तदतिरिक्तं सैनिकानां पूर्व-सैनिकानां च परिवारैः सम्बद्धानां भूमिवञ्चनाप्रकरणानां निस्तारणेऽपि सर्वकारस्य पक्षतः सहायता प्रदीयते।

Hindusthan Samachar / Divya Ranjan