Enter your Email Address to subscribe to our newsletters

वाराणसी, 27 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे नगरनिगमसदनस्य साधारणाधिवेशनम् अधुना सितम्बरमासस्य त्रितीयदिने गुरुवासरे भविष्यति। पूर्वं एषा सभा अगस्तमासस्य सप्तविंशतितमे दिने गुरुवासरे आयोजनीया आसीत्। अपरिहार्यकारणैः साधारणसभायाः उपवेशनं स्थगितम् अस्ति। एषा सूचना नगरनिगमस्य जनसम्पर्काधिकारी सन्दीपश्रीवास्तवेन प्रदत्ता।
तेन उक्तं यत् महापौरस्य अशोककुमारतिवारिणः निर्देशानुसारं सदनस्य साधारणोपवेशनम् अधुना सितम्बरमासस्य त्रितीयदिने मध्याह्ने द्वादशवादनात् मैदागिनस्थिते टाउनहॉल्-सभागारे आयोजिता भविष्यति। सभायाः सम्बन्धे सर्वेभ्यः पार्षदेभ्यः सूचना प्रदत्ता अस्ति।
नगरे विगतेषु त्रिषु दिनेषु विरामेण वर्षा भवति। वर्षाकारणात् नगरस्य विभिन्नेषु स्थलेषु जलसञ्चयः अभवत्। जलसञ्चितस्य जलस्य निष्कासनस्य व्यवस्थां कर्तुं नगरनिगमस्य कर्मचारीदलम् कार्ये संलग्नम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani