Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 27 अगस्तमासः (हि.स.)।रक्षाबन्धनपर्वणः अवसरे महिलास्वसहायतासमूहेभ्यः सम्बद्धाभिः भगिनीभिः जनपदे ७ लक्ष १५ सहस्ररुप्यकाणां राख्यः विक्रीताः। जिला-परियोजना-प्रबन्धकः (रीप) सञ्जयः सक्सेना अवदत् यत् जिलाधिकारी मयूरः दीक्षितः तथा मुख्यविकासाधिकारी डॉ. ललितनारायणः मिश्रः इत्येतयोः मार्गदर्शने मुख्यमन्त्रिणः सशक्त-बहना-उत्सवयोजनायाः अन्तर्गतं राष्ट्रीयग्रामीणजीविकोपार्जनमिशन (एनआरएलएम) तथा रीप इत्येतयोः माध्यमेन जनपदे ३६ स्थानेषु विक्रयस्थानानि स्थापितानि।
२१ तः ३० अगस्तपर्यन्तं सञ्चाल्यमानेषु एतेषु विक्रयस्थानेषु प्रतिदिनं औसततया ४ सहस्ररुप्यकाणां विक्रयः भवति। अधुना पर्यन्तं समग्रतया ७.१५ लक्षरुप्यकाणां हस्तनिर्मितराख्यः विक्रीताः सन्ति। महिलाभिः निर्मितेभ्यः उत्पादेभ्यः जनानां उत्तमं समर्थनं प्राप्यते।
सः अवदत् यत् अयं अभियानः ‘स्थानीयाय स्वरं ददातु’ इति भावनां तथा महिलासशक्तीकरणं च सुदृढं करोति। समूहस्य महिलाः ‘लखपति-दीदी’ भवितुं दिशि अग्रसराः सन्ति। जिलास्तरीया विकासखण्डस्तरीया च एनआरएलएम-दलम् प्रशिक्षणस्य विपणनस्य च कार्येषु सहयोगं प्रददाति।
Hindusthan Samachar / Dheeraj Maithani