नेपालस्य त्रासद्यां विश्वहिन्दूपरिषदा संवेदना प्रकटिता, सहाय्यस्य घोषणा
नवदिल्ली, २७ अगस्तमासः (हि.स.)। विश्वहिन्दूपरिषदा नेपालस्य उत्तरीय-सीमावर्तिक्षेत्रेषु आपतितायां विनाश-कारिण्यां जलौघे गहनं दुःखं प्रकट्य सहाय्यस्य घोषणा कृता। वीएचपी इत्यनेन तिब्बत-नेपालसीमायां घटितायाः प्राकृतिकापदायाः अन्तर्गतं रसुवामण्डले भोटे
नेपाल का बाढ़ प्रभावित क्षेत्र।


नवदिल्ली, २७ अगस्तमासः (हि.स.)। विश्वहिन्दूपरिषदा नेपालस्य उत्तरीय-सीमावर्तिक्षेत्रेषु आपतितायां विनाश-कारिण्यां जलौघे गहनं दुःखं प्रकट्य सहाय्यस्य घोषणा कृता।

वीएचपी इत्यनेन तिब्बत-नेपालसीमायां घटितायाः प्राकृतिकापदायाः अन्तर्गतं रसुवामण्डले भोटेकोशी-नद्यां उत्पन्नेन भीषणजलौघेन जातायाः जनधनस्य महत्याः हान्याः विषये गहनसंवेदना प्रकटिता। परिषद् सम्पूर्णश्च हिन्दूसमाजः अस्यां विपत्तौ नेपालीसमाजस्य, पीडितपरिवाराणां प्रभावितजनसमुदायस्य च सह दृढतया स्थितः अस्ति। कैलास-मानसरोवरस्य तीर्थयात्रायां गतानां यात्रिणां जीवने उत्पन्ने सङ्कटेऽपि परिषद् चिन्तां प्रकटितवती।

परिषदा उक्तं यत् केन्द्रसर्वकारेण प्रदीयमानानां विविधप्रकारसहाय्यानाम् अतिरिक्तं भारतीयसमाजस्य ओरतः अपि सहायतासामग्रीं सहाय्यराशिं च सङ्गृह्य प्रभावितक्षेत्रेषु पीडितेभ्यः प्रदास्यति।

उल्लेखनीयं यत् नेपालस्य रसुवामण्डले तद्-अन्येषु समीपस्थक्षेत्रेषु च बुधवासरे प्रातः भोटेकोशी-नद्यां सहसा आपतितायां विनाशकारिण्यां जलौघे अद्यावधि न्यूनातिन्यूनं १५७ जनानां मृत्युः जातः तथा प्रायः ७०० जनाः विलुप्ता: इति कथ्यते।

Hindusthan Samachar / Divya Ranjan