युवाशक्तिः देशस्य सर्वप्रमुखं धनम्, क्रीडाः राष्ट्रनिर्माणस्य सशक्तं माध्यमं भवन्ति - मुख्यमन्त्री
जयपुरम्, २७ अगस्तमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा अवदत् यत् युवाशक्तिः देशस्य सर्वप्रमुखं धनम् अस्ति तथा यूनां धैर्यस्य, आत्मविश्वासस्य, अथक-परिश्रमस्य च बलेन एव विकसितभारतस्य सङ्कल्पः साकारं कर्तुं शक्यते। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्
संवाद


जयपुरम्, २७ अगस्तमासः (हि.स.)। मुख्यमन्त्री भजनलालशर्मा अवदत् यत् युवाशक्तिः देशस्य सर्वप्रमुखं धनम् अस्ति तथा यूनां धैर्यस्य, आत्मविश्वासस्य, अथक-परिश्रमस्य च बलेन एव विकसितभारतस्य सङ्कल्पः साकारं कर्तुं शक्यते। प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे देशे क्रीडानां प्रति सकारात्मकं वातावरणं निर्मितम् अस्ति। अधुना ग्रामे ग्रामे निहिताः क्रीडाप्रतिभाः राष्ट्रीय-अन्ताराष्ट्रियस्तरे स्वपरिचयं निर्मातुम् अवसरान् प्राप्नुवन्ति। क्रीडाः अधुना केवलं प्रतियोगितायाः माध्यमं न, अपितु राष्ट्रनिर्माणस्य सशक्तं माध्यमं भवन्ति।

मुख्यमन्त्री गुरुवासरे राष्ट्रियक्रीडा-दिवसस्य उपलक्ष्ये आयोजिते प्रधानमन्त्रिणः नरेन्द्रमोदिनः ‘माय भारत खेलो इण्डिया संवाद’ इति कार्यक्रमे जयपुरस्य सुबोध-पीजी-महाविद्यालयात् दूरदृश्यसम्पर्कमाध्यमेन सम्बद्धवान्। सः प्रधानमन्त्रिणः सम्बोधनं श्रुतवान्। अस्मिन् अवसरे सः हॉकीक्रीडायाः जादूगरं मेजरध्यानचन्दं नत्वा अवदत् यत् राष्ट्रीयक्रीडादिवसः तस्य अद्वितीययोगदानं, क्रीडां प्रति समर्पणं, देशे क्रीडाभावनां सुदृढीकर्तुं तस्य प्रयत्नान् च स्मर्तुं अवसरः अस्ति।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्पष्टं मतम् अस्ति यत् देशः बृहद्स्तरे पदकानि तदैव प्राप्तुं शक्नोति यदा समाजे क्रीडासंस्कृतेः निर्माणं भवेत्। प्रधानमन्त्रिणः दूरदर्शिनः नेतृत्वस्य परिणामतः भारतं सम्प्रति क्रीडाक्षेत्रे आत्मविश्वासेन अग्रे गच्छति। सः सूचितवान् यत् केन्द्रसर्वकारस्य संशोधितायाः खेलो इण्डिया-योजनायाः अन्तर्गतं ३६ सहस्रकोटिरूप्यकाणां व्ययेन देशस्य क्रीडासंरचनायाः प्रतिभानां च नूतना दिशा प्राप्स्यते इति अपेक्षा अस्ति। सः अवदत् यत् २०१४ तमवर्षस्य अनन्तरं देशस्य क्रीडापरिदृश्ये महत्त्वपूर्णं परिवर्तनम् अभवत्। युवभ्यः अवसरप्रदानाय तेषां प्रतिभायै च मञ्चप्रदानाय विशेषं बलं दत्तम् अस्ति।

मुख्यमन्त्री अवदत् यत् स्वामीविवेकानन्दः एकविंशतितमं शताब्दं भारतस्य शताब्दं कर्तुं स्वप्नं दृष्टवान् आसीत् तथा अद्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे एषः सङ्कल्पः साकारतां गच्छन् दृश्यते। भारतं विश्वस्य चतुर्थी बृहत्तमा अर्थव्यवस्था अभवत् तथा तृतीयां बृहत्तमाम् अर्थव्यवस्थां प्रति अग्रे गच्छति। मुख्यमन्त्री अवदत् यत् देशस्य प्रायः ६५ प्रतिशतं जनसङ्ख्या ३५ वर्षेभ्यः न्यूना अस्ति। अतः युवाशक्तेः सम्यक् दिशि मार्गदर्शनं तस्यै अवसरप्रदानं च देशस्य भविष्याय अत्यन्तं महत्त्वपूर्णम् अस्ति। प्रधानमन्त्रिणः प्रेरणया प्रारब्धं ‘माय भारत’ इति अङ्कीयमञ्चं युवान् कौशलविकासेन, नेतृत्वेन, नागरिकसहभागितया राष्ट्रनिर्माणेन च सम्बद्धं कर्तुं कार्यं करोति।

सः अवदत् यत् ‘माय भारत’ केवलम् अङ्कीयमञ्चं न, अपितु अमृतवंशस्य ऊर्जां सामर्थ्यं च विकसितभारतस्य सङ्कल्पेन सह योजयितुं माध्यमम् अस्ति। एतस्यैव दिशि राजस्थानसर्वकारेण प्रदेशस्य युवानः क्रीडया, कौशलविकासेन, रोजगारस्य अवसरैः सामुदायिकसहभागितया च सम्बद्धुं ‘सुयोग’ इति मञ्चः प्रारब्धः। अस्य उद्देश्यम् प्रदेशस्य ग्रामस्तरात् वार्डस्तरपर्यन्तं युवानः विकासस्य मुख्यधारया सह योजयितुम् अस्ति।

मुख्यमन्त्री अवदत् यत् प्रदेशे क्रीडानाम् आधारभूतसंरचना निरन्तरं सुदृढीक्रियते। क्रीडकाणां कृते उत्तमप्रशिक्षणं, आधुनिकसुविधाः, आर्थिकसुरक्षा, सम्मानं च प्रदाय तान् विश्वस्तरीयप्रतियोगितानां कृते सज्जीकुर्वन्ति। राजस्थानप्रदेशे ५० खेलो इण्डिया-केन्द्राणि स्थापितानि सन्ति। सः सूचितवान् यत् जयपुरस्य सवाईमानसिंह-क्रीडाङ्गणे एथलेटिक्स्, धनुर्विद्या, मुष्टियुद्धं च कृते उत्कृष्टताकेन्द्राणि विकसितानि क्रियन्ते। अपरत्र जयपुरे प्रायः १०१ कोटिरूप्यकाणां व्ययेन महाराणाप्रताप-क्रीडाविश्व-विद्यालयस्य स्थापना क्रियते।

मुख्यमन्त्री अवदत् यत् राष्ट्रिय-अन्ताराष्ट्रियस्तरे राजस्थानस्य नाम गौरवान्वितवन्तः १८६ क्रीडकाः शासकीयसेवासु नियुक्ताः सन्ति। राज्यसर्वकारेण अद्यावधि ३,५४० क्रीडकेभ्यः प्रायः ५२ कोटिरूप्यकाणां प्रोत्साहन-सहायताराशिः प्रदत्ता अस्ति। राजस्थानप्रदेशे प्रथमवारं खेलो इण्डिया विश्वविद्यालयक्रीडा-२०२५ इत्यस्य सफलम् आयोजनं कृतम्। प्रदेशस्य सप्तसु नगरेषु आयोजितासु एतासु क्रीडासु २२२ विश्वविद्यालयानां प्रायः ७,००० क्रीडकाः भागं गृहीतवन्तः। अपरतः खेलो इण्डिया युवा-क्रीडा-२०२५ इत्यत्र राजस्थानस्य क्रीडकाः उत्कृष्टं प्रदर्शनं कृत्वा ६० पदकानि विजित्य देशे तृतीयं स्थानं प्राप्तवन्तः।

मुख्यमन्त्री अधुनैव आयोजितेषु राष्ट्रमण्डलक्रीडासु सुवर्णपदकविजेत्री अरुन्धतीचौधर्याः कांस्यपदकविजेतुः यशवीरसिंहस्य च प्रदर्शनस्य प्रशंसां कृत्वा अवदत् यत् एताभ्यां क्रीडकाभ्यां स्वोपलब्धिभिः सम्पूर्णप्रदेशस्य गौरवं वर्धितम् अस्ति। मुख्यमन्त्री अवदत् यत् राजस्थानयुवनीतेः-२०२६ माध्यमेन युवभ्यः शिक्षा, कौशलं, क्रीडा, नेतृत्वविकासश्च क्षेत्रेषु नूतनाः अवसराः निर्मीयन्ते। ‘एकजनपद-एकक्रीडा’ इति प्रयत्नस्य अन्तर्गतं प्रत्येकस्मिन् जनपदे एका प्रमुखा क्रीडा प्रोत्साह्यते, येन स्थानीयस्तरे प्रतिभाः ज्ञात्वा ताः अग्रे वर्धयितुं शक्यन्ते। सः सूचितवान् यत् ओलम्पिक-क्रीडासु पदकविजयस्य लक्ष्यं दृष्ट्वा राजस्थान-लक्ष्य-ओलम्पिक-पोडियम-योजना प्रारब्धा अस्ति। विभागीयक्रीडा-अकादमीनां क्रीडकाणां भोजनभत्तामपि २,६०० रूप्यकेभ्यः वर्धयित्वा प्रतिमासं ४,००० रूप्यकाणि कृतम् अस्ति।

मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः प्रत्येकस्मिन् अर्थसङ्कल्पे यूनाम् अपेक्षाः आवश्यकताश्च ध्याने निधाय कार्यं करोति। भर्तीपरीक्षाणां कृते परीक्षापञ्चाङ्गं प्रकाशितम् अस्ति। अद्यावधि ४१० परीक्षाः प्रश्नपत्रप्रकाशनस्य घटनां विना आयोजिताः सन्ति तथा १ लक्ष ८९ सहस्राधिकाः नियुक्तयः प्रदत्ताः सन्ति। सः सूचितवान् यत् १ लक्षं २२ सहस्राधिकेषु पदेषु नियुक्तिप्रक्रिया प्रचलति, ७० सहस्राधिकेषु पदेषु नियुक्त्यै सज्जता च क्रियते। निजिक्षेत्रे अपि सार्धचतुःलक्षाधिकेभ्यः युवभ्यः रोजगारः प्राप्तः अस्ति।

मुख्यमन्त्री युवभ्यः आह्वानं कृतवान् यत् ते स्वस्य रुच्याः प्रतिभायाश्च क्षेत्रे परिश्रमेण, लग्नतया, आत्मविश्वासेन च अग्रे वर्धन्ताम्। सः अवदत् यत् राज्यसर्वकारः यूनां क्रीडायाः, शिक्षायाः, रोजगारस्य, कौशलस्य अन्येषां च क्षेत्राणां प्रगतये आवश्यकान् अवसरान् सुविधाश्च प्रदातुं न काञ्चिदपि न्यूनतां करिष्यति। कार्यक्रमात् पूर्वं मुख्यमन्त्री षष्ठायाः एशियाई-अण्डर-१८-एथलेटिक्स-चैम्पियनशिप स्पर्धायाः कांस्यपदकविजेत्र्या लक्षितया, अखिल-भारतीय-विश्वविद्यालयक्रीडायाः रज-तपदकविजेतेन मानवशर्मणा, राज्य-अण्डर-२३-स्पर्धायाः सुवर्णपदक-विजेतेन अविरलतिवारिणा तथा एचसीएल्-८१ तमस्य राष्ट्रियस्क्वैश-चैम्पियनशिप-स्पर्धायाः प्रतिभागिन्या भूमिकापारीकेन च सह संवादं कृतवान्।

मुख्यमन्त्री क्रीडकेभ्यः तेषाम् अनुभवस्य, प्रशिक्षणस्य, भविष्यस्य आवश्यकतानां च विषये सूचनां प्राप्तवान् तथा तेषां विचारान् अशृणोत्। कार्यक्रमे सांसदः रावराजेन्द्रसिंहः, मञ्जूशर्मा इत्यादयः जनप्रतिनिधयः, गणमान्यजनाः, क्रीडा-क्षेत्रस्य प्रतिनिधयः बहुसंख्याकाः युवानश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan