पंजाब पुलिसदले 1,746 नूतनसैनिकाः सम्मिलिताः, मुख्यमंत्री मानः समर्पितवान् नियुक्तिपत्रम्
- जालन्धरे आयोजिते समारोहे नवजवानानां अभिनन्दनम्। - सार्धचतुरवर्षेषु १३,०९२ नियुक्तयः, ३,२९८ आरक्षकाणां नियुक्तिप्रक्रिया प्रचलति, १,६०० नवीनपदानि स्वीकृतानि। जालन्धरम्, २७ अगस्तमासः (हि.स.)। पंजाबस्य मुख्यमन्त्रिणा भगवन्तसिंहमानेन गुरुवासरे पंजा
CM Bhagwant Singh Mann handed over appointment letters to Police personnel


- जालन्धरे आयोजिते समारोहे नवजवानानां अभिनन्दनम्।

- सार्धचतुरवर्षेषु १३,०९२ नियुक्तयः, ३,२९८ आरक्षकाणां नियुक्तिप्रक्रिया प्रचलति, १,६०० नवीनपदानि स्वीकृतानि।

जालन्धरम्, २७ अगस्तमासः (हि.स.)। पंजाबस्य मुख्यमन्त्रिणा भगवन्तसिंहमानेन गुरुवासरे पंजाबपुलिसे नियुक्तेभ्यः १,७४६ युवभ्यः नियुक्तिपत्राणि प्रदत्तानि। पीएपी-प्राङ्गणे आयोजितायां दीक्षान्त-संचलन-समारोहे मुख्यमन्त्रिणा नूतनप्रशिक्षितानां पंजाबपुलिस-परिवारस्य सदस्यत्वप्राप्तेः अभिनन्दनं कृतं तथा च पूर्णया ईमानदारीपूर्वकं, समर्पणभावेन व्यावसायिकवृत्त्या च जनसेवां कर्तुम् आह्वानं कृतम्।

मुख्यमन्त्रिणा उक्तं यत् राज्यसर्वकारेण ‘रिश्वतं विना, अनुशंसां विना’ इति सिद्धान्तस्य आधारेण योग्यतानुसारम् अधुनापर्यन्तं ७०,८४० युवभ्यः सर्वकारीय-नियुक्तयः प्रदत्ताः। तेन कथितं यत् गतसार्धचतुरवर्षेषु पंजाबपुलिसे विभिन्नेषु पदेषु १३,०९२ युवानां नियुक्तिः कृता अस्ति, यदा ३,२९८ अन्येषां आरक्षकाणां नियुक्तिप्रक्रिया प्रचलति।

भगवन्तसिंहमानेन कथितं यत् पंजाबसर्वकारेण पुलिसस्य जनपद-कैडरमध्ये १,६०० नवीनपदानां स्वीकृतिः कृता अस्ति। एतेषु १५० निरीक्षकाणां, ४५० उपनिरीक्षकाणां तथा १,००० सहायक-उपनिरीक्षकाणां पदानि सम्मिलितानि सन्ति। एतानि पदानि विभागीय-पदोन्नत्या पूरयिष्यन्ते, येन वर्तमानपुलिसकर्मचारिभ्यः सेवायां उन्नतेः अवसराः प्राप्स्यन्ते।

मुख्यमन्त्रिणा उक्तं यत् पंजाबः सीमावर्ती राज्यः अस्ति तथा च पंजाबपुलिसस्य उत्तरदायित्वं केवलं राज्यस्य सुरक्षायै सीमितं नास्ति। पुलिसबलं ५३२ किलोमीटर-दीर्घायाः अन्तर्राष्ट्रीयसीमायाः सुरक्षायामपि महत्त्वपूर्णां भूमिकां निर्वहति।

तेन उक्तं यत् कतिपयाः शक्तयः पंजाबस्य शान्तिं भङ्क्तुं तथा अशान्तिं आतंकवादं च प्रसारयितुं प्रयतन्ते, किन्तु एतादृशीनां षड्यन्त्राणां सफलतां न भविष्यति।

मुख्यमन्त्रिणा उक्तं यत् पंजाबः दीर्घकालात् मादकद्रव्यसमस्यया पीडितः अस्ति, किन्तु सर्वकारेण तस्याः विरुद्धं ‘मादकद्रव्याणां विरुद्धं युद्धम्’ इति अभियानम् आरब्धम्। तस्य अनुसारं गतप्रायेषु ५०० दिवसेषु ७०,००० अधिकाः मादकद्रव्यतस्कराः कारागारे प्रेषिताः सन्ति तथा मादकद्रव्यतस्कर्यां संलग्नानां जनानां सम्पत्तीनाम् अपि विरुद्धं कार्यवाही क्रियते।

तेन नूतनपुलिसजवानान् मादकद्रव्याणां आपूर्तिं निवारयितुं तथा पंजाबं मादकद्रव्यविहीनं कर्तुं सक्रियां भूमिकां निर्वोढुम् आह्वानं कृतम्।

मुख्यमन्त्रिणा नूतनपुलिसजवानान् सामान्यजनानां समस्याः समाधातुं तथा आवश्यकानां पश्चात्पतितवर्गाणां च साहाय्यं प्राथमिकतया कर्तुम् आह्वानं कृतम्।

अस्मिन् अवसरे मन्त्रिमण्डलस्य मन्त्री मोहिन्दरभगतः, मुख्यसचिवः के.ए.पी. सिन्हा, पुलिसमहानिदेशकः गौरवयादवः इत्यादयः अनेकाः अधिकारीगणाः अन्ये च गणमान्यजनाः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani