Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 27 अगस्तमासः (हि.स.)। भारतीयजनतापार्टी महिलामोर्चायाः प्रदेशाध्यक्षा रुचिभट्टमहोदयायाः नेतृत्वे महिलाकार्यकर्त्रियः गुरुवासरे भाजपा प्रदेशाध्यक्षेन महेन्द्रभट्टमहोदयेन सह रक्षाबन्धनपर्वम् आचरितवत्यः। महिलामोर्चायाः कार्यकर्त्रिभिः प्रदेशाध्यक्षाय भट्टमहोदयाय राखीबन्धनं कृत्वा तस्य स्वस्थतायै, दीर्घायुष्याय सफलजीवनाय च शुभकामनाः प्रदत्ताः।
रुचिभट्टमहोदया अवदत् यत् रक्षाबन्धनं भ्रातृभगिन्योः प्रेम्णः, विश्वासस्य, दायित्वस्य सम्मानस्य च पर्व अस्ति। सा अवदत् यत् प्रदेशस्य भगिनीनां शुभकामनाभिः आशीर्वादैः च २०२७ तमे वर्षे आयोज्यमाने विधानसभानिर्वाचने भाजपायाः प्रचण्डविजयः निश्चितः अस्ति।
सा अवदत् यत् भाजपायां महिलानां भूमिका केवलं संगठनात्मकक्रियाकलापेषु एव सीमिता नास्ति, अपितु राष्ट्रनिर्माणे समाजस्य सशक्तीकरणे च महिलाशक्तिः महत्त्वपूर्णां भूमिकां निर्वहति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशे महिलासशक्तीकरणाय नूतना दिशा प्राप्ता अस्ति तथा मुख्यमन्त्रिणः पुष्करसिंहधामिनः नेतृत्वे राज्यसर्वकारः महिलानां बालिकानां च हिताय कार्यं कुर्वन् अस्ति।
महेन्द्रभट्टमहोदयः महिलामोर्चायाः कार्यकर्त्रीभ्यः रक्षाबन्धनस्य शुभकामनाः प्रदाय अवदत् यत् भाजपासंगठने महिलाशक्तेः भूमिका महत्त्वपूर्णा अस्ति। सः अवदत् यत् आगामीविधानसभानिर्वाचने महिलाकार्यकर्त्रीणां भूमिका निर्णायिका भविष्यति। सः कार्यकर्तृभ्यः सर्वकारस्य उपलब्धीनां दलस्य नीतिनां च जनसामान्यं प्रति प्रसारणाय तथा मतदानकेन्द्रस्तरे संगठनस्य सुदृढीकरणाय च आह्वानं कृतवान्।
अस्मिन् अवसरे महिलामोर्चायाः पदाधिकारिण्यः संगठनस्य सुदृढीकरणाय, महिलासशक्तीकरणाय उत्तराखण्डस्य विकासाय च कार्यं कर्तुं संकल्पं स्वीकृतवत्यः। कार्यक्रमे भाजपा प्रदेशमहामन्त्री कुन्दनपरिहारः, राज्य महिलायोगस्य अध्यक्षा कुसुमकण्डवालः, राज्यबालयोगस्य अध्यक्षा डा. गीताखन्ना, राज्यमन्त्री विनोदउनियालः, गीतारावत्, ज्योतिः कोटिया, अनुराधावालिया तथा महिलामोर्चायाः महामन्त्री डा. हिमानीवैष्णवः इत्यादयः अन्ये पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।-------------
Hindusthan Samachar / Dheeraj Maithani